त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः । गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते
नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः । देयानि तु विशेषेण केशवाय सुभक्तितः
नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः । घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः
कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत् । वस्त्राणि चैव चोष्णीषं कंचुकं च प्रदापयेत्
दक्षिणां च यथाशक्त्या गुरुवे संप्रदापयेत् । भोजनं चैव तांबूलं दत्त्वा चार्घं प्रदापयेत्
स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्द्धनैः । कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्द्धिनी
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् । पुराणपाठसहितं हास्याह्लादसमन्वितम्
स्तुवंति च प्रशंसंति जागरं चक्रपाणिनः । नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु
अतो धन्यतमा चेयं कर्त्तव्या पक्षवर्द्धनी । कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम्
पक्षवर्द्धनी माहात्म्यं ये शृण्वंति मनीषिणः । तैः कृतं सत्कृतं सर्वं यावदाभूतसंप्लवम्
पंचाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने । तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात्
पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी । उपवासकृता विप्र हत्याकोटिविनाशिनी
वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने । ध्रुवेण चांबरीषेण कृतेयं विष्णुवल्लभा
इयं काशीसमा पुण्या इयं वै द्वारका समा । उपोषिता च भक्तेन वांछितं च ददात्यसौ
इयं धन्या धन्यतमा हत्यायुतविनाशिनी । कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः
अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः । किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम्
यथा च वर्द्धते चंद्रः सिते पक्षे विशेषतः । तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी
सूर्योदये यथा ध्वांतं नश्यते तत्क्षणादपि । तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यंनाम षट्त्रिंशोऽध्यायः
महादेव उवाच- शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च । यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः
नारद उवाच- अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा । तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव
तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु । कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी
प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो । त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः । त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने
सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः । लोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा
अतो येन प्रकारेण लोकानां मुक्तिरेव च । विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु
महादेव उवाच-। एकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितः । कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह
गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा । धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम्
फलमर्घं तथा श्रद्धा दानमिंद्रियसंयमम् । सत्यान्वितं च विप्रेंद्र वचोयुक्तं क्रियान्वितम्
विनिद्रं च मुदायुक्तो यः करोति नरः सदा । सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः
रात्रौ जागरणे प्राप्ते निद्रां कुर्वंति वैष्णवाः । हारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम्