शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम् । तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः
कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम् । सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा
जैमिनिरुवाच- तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभ । तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत
व्यास उवाच- यथा प्रियतमा विष्णोस्तुलसी सततं द्विज । तथा प्रियतमा धात्री सर्वपापप्रणाशिनी
तुलसीवृक्षमासाद्य या यास्तिष्ठंति देवताः । आमलक्यास्तले तास्ता निवसंति द्विजोत्तम
गंगादीनि च तीर्थानि तत्रैव द्विजसत्तम । विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति
अशुभं वाशुभं वापि यत्कर्मामलकीतले । क्रियते मानवैर्विंप्र भवेत्तत्सत्यमक्षयम् ५० 7.24.
पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम् । स मुक्तः पापजालेन सायुज्यं लभते हरेः
धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिने । स्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत्
न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा । तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम्
धात्र्या तुलस्या हीनं च निलयं यस्य भूसुर । अलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः
स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न च । श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः
धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराः । न धात्री तुलसी पत्रं तत्रैवाखिलपातकम्
धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः । तस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह
धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरः । तस्य देहं समाश्रित्य तिष्ठंति सर्वदेवताः
धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरः । तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम्
यस्तु धात्रीफलं भुंक्ते मानवोऽखिलतत्ववित् । तद्देहाभ्यंतरस्थायि सर्वं पापं विनश्यति
धात्रीफलमयीं मालां यो वहेद्दिवजसत्तम । ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम्
श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः । गङ्गामरणजं पुण्यं संप्राप्नोति न संशयः
तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः । सद्य एव प्रमुच्यंते जन्मकोटिशतैरपि
नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम् । दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः
धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम् । स ददाति हरेरंगे घातं नास्त्यत्र संशयः
सर्वदेवमयी धात्री विशेषात्केशवप्रिया । सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते
धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः । भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात्
जैमिनिरुवाच- भूय एव महाभाग तुलस्याः पापनाशनम् । अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात्
सूत उवाच- ततो व्यासो महातेजास्तुलस्या द्विजसत्तम । माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम्
व्यास उवाच- इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया । तस्मादिमां न पश्यंति वृक्षज्ञानेन जैमिने
सदैव तुलसीं मर्त्यो यथैव भुवि सेवते । तथैव सेन्द्रा विबुधाः सेवंते तं सुरालये
परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति । तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया
प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि । तुलसीपत्रगलितं स याति हरिसन्निधिम्