हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये । ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे
उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये । स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः
अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम् । शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम्
सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः । देवदेव महादेव श्रीकेशव जनार्दन
सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन । शोकमोहमहापापान्मामुद्धर भवार्णवात्
सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि । तथापि मां महास्वामिन्मामुद्धर भवार्णवात्
व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः । वियोनिं च गताश्चान्ये पापमृत्युवशं गताः
ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर । श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी
दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर । दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः
स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम् । वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम्
तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात् । लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः
अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः । अहितं यो नाशयति स्वहितं दर्शयेत्सदा
स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः । अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत्
गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम् । कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह
कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः । अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम्
कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ
नारद उवाच- कीदृशी स्यान्महादेव पक्षवर्द्धनिसंज्ञका । यया वै कृतया जंतुर्महपापात्प्रमुच्यते
श्रीमहादेव उवाच- अमा वा यदि वा पूर्णा संपूर्णा जायते तदा । भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने । अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी
नारद उवाच- पूजाविधिं तु पृच्छामि सांप्रतं देवसत्तम । यत्कृते तु महादेव महाफलमवाप्नुयात्
महादेव उवाच- पूजाविधिं प्रवक्ष्यामि सांप्रतं द्विजनंदन । पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः
येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः । अव्रणं जलपूर्णं च कुंभं चंदनचर्चितम्
पंचरत्नसमायुक्तं पुष्पमालाभिवेष्टितम् । स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि
सौवर्णं कारयेद्देवं माससंज्ञाभिनामकम् । पंचामृतेन विधिना स्नपनं सुमनोरमम्
कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम् । विलेपनं तु कर्त्तव्यं कुंकुमागरुचंदनैः
वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम् । पूजयेद्देवताधीशं कुंभपात्रोपरिस्थितम्
पद्मनाभाय वै पादौ जानुनी विश्वमूर्त्तये । ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च
उदरं विश्वनाथाय हृदयं श्रीधराय च । कंठं कौस्तुभकंठाय बाहू क्षत्रांतकारिणे
ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे । स्वनाम्ना चैव कमलां सर्वांगीं दिव्यरूपिणीम्
एवं विधिवत्संपूज्य ततोऽर्घं दापयेत्सुधीः । नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः
अनेनैवार्घदानेन संपूर्णं जायते व्रतम् । संसारार्णवमग्नं मां समुद्धर जगत्पते