पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम् । गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम्
पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम् । नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम्
मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम् । श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः
प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् । उपानहौ तु राजर्षे आतपत्रं शिरोपरि
भोजनं जलपात्रं च सप्तधान्यं तिलैः सह । रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः
धेनुर्वात्र तु दातव्या वत्सालंकारसंयुता । सुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च
कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा । शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम्
धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत् । पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः 6.35.
तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा । मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे
गुह्ये तु गुह्यपतये कटे वै पीतवाससे । ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये
हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये । ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे
उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये । स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः
अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम् । शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम्
सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः । देवदेव महादेव श्रीकेशव जनार्दन
सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन । शोकमोहमहापापान्मामुद्धर भवार्णवात्
सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि । तथापि मां महास्वामिन्मामुद्धर भवार्णवात्
व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः । वियोनिं च गताश्चान्ये पापमृत्युवशं गताः
ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर । श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी
दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर । दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः
स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम् । वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम्
तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात् । लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः
अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः । अहितं यो नाशयति स्वहितं दर्शयेत्सदा
स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः । अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत्
गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम् । कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह
कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः । अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम्
कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ
नारद उवाच- कीदृशी स्यान्महादेव पक्षवर्द्धनिसंज्ञका । यया वै कृतया जंतुर्महपापात्प्रमुच्यते
श्रीमहादेव उवाच- अमा वा यदि वा पूर्णा संपूर्णा जायते तदा । भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने । अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी
नारद उवाच- पूजाविधिं तु पृच्छामि सांप्रतं देवसत्तम । यत्कृते तु महादेव महाफलमवाप्नुयात्
महादेव उवाच- पूजाविधिं प्रवक्ष्यामि सांप्रतं द्विजनंदन । पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः