श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम् । पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते
अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि । तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता
अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह । यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा
पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् । यत्कृतं तु महाराज महापापप्रणाशनम्
मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा । एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम्
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् । सर्वरोगादिशमनं पवित्रं कायशोधनम्
व्रतमेतच्च कुरुषे नो वा चैव नराधिप । दशमीवेधरहितं कुरुषे जागरान्वितम्
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् । गोपीचंदनजं पत्रं भाले वा नृपसत्तम
धारितं सर्वलोकानां पवित्रीकरणं नृप । अतस्त्वं च धारयसे गोपीचंदनसंभवम्
ब्रह्महा हेमहारी च मद्यपानी तथैव च । अगम्यगो महापापी तथा ह्यनृतभाषितः
ते सर्वे मुक्तिमायांति तिलकं धारणादृताः । बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम्
मालां मुख्यायुतसमां तुलसीपत्रसंभवाम् । शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम्
नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम् । पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः
चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते । वासरं वासुदेवस्य सवेधं कुर्वतो नरान्
निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः । सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते
लिप्यते तेन पापेन राजा भवति नारकी । वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् । कुलकोटिं समुद्धृत्य विष्णुलोके महीयते
गौतम उवाच- शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् । यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात्
द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित्
वैष्णवोऽसि महाराज भक्तो भागवते नृणाम् । वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय
उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु । कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम्
एकादशी अहोरात्रं प्रभाते घटिका भवेत् । उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च
उन्मीलनी समं किंचिन्न भूतं न भविष्यति । प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः
शैलो हिमाचलो नैव न मेरुर्गंधमादनः । शैलो न नीलनिषधो न विंध्यो नैव नैमिषम्
गोदावरी न कावेरी चंद्रभागा न वेदिका । न तापी न पयोष्णी च न क्षिप्रा नैव चंदना
चर्मण्वती च सरयूश्चंद्रभागा न गंडिका । गोमती च विपाशा च शोणाख्यश्च महानदः
किमत्र बहुनोक्तेन भूयोभूयो नराधिप । उन्मीलनीसमं किंचिन्न देवः केशवात्परः
उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम् । पापचक्रसमूहस्य राशयः पतिताः क्षणात्
यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत् । तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः
जातरूपमयः कार्यं मासनाम्ना तु माधवः । स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः