विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् । तस्या व्रतान्न संदेहः स्वर्गलोके महीयते
स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते । अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम्
वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशः । तेषां दंडं च कुरुषे नो वा तेषां नराधिपः
भोजनानंतरं तेषां भोजनं कुरुते नृप । तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः
शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम् । त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः
धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते । आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप
शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः । नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान्
नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम् । विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव
विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते । नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम्
दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम् । श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम
श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम् । पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते
अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि । तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता
अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह । यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा
पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् । यत्कृतं तु महाराज महापापप्रणाशनम्
मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा । एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम्
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् । सर्वरोगादिशमनं पवित्रं कायशोधनम्
व्रतमेतच्च कुरुषे नो वा चैव नराधिप । दशमीवेधरहितं कुरुषे जागरान्वितम्
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् । गोपीचंदनजं पत्रं भाले वा नृपसत्तम
धारितं सर्वलोकानां पवित्रीकरणं नृप । अतस्त्वं च धारयसे गोपीचंदनसंभवम्
ब्रह्महा हेमहारी च मद्यपानी तथैव च । अगम्यगो महापापी तथा ह्यनृतभाषितः
ते सर्वे मुक्तिमायांति तिलकं धारणादृताः । बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम्
मालां मुख्यायुतसमां तुलसीपत्रसंभवाम् । शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम्
नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम् । पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः
चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते । वासरं वासुदेवस्य सवेधं कुर्वतो नरान्
निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः । सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते
लिप्यते तेन पापेन राजा भवति नारकी । वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् । कुलकोटिं समुद्धृत्य विष्णुलोके महीयते
गौतम उवाच- शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् । यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात्
द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित्
वैष्णवोऽसि महाराज भक्तो भागवते नृणाम् । वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय
उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु । कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम्