दशरथ उवाच- अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित् । देवासुरमनुष्याणां पशुपक्षिसरीसृपाम्
शनिरुवाच- गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः । अदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम्
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात्
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम् । मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः । शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम् । कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् । पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि
तस्य पीडा न चैवाहं करिष्यामि कदाचन । गोचरे जन्मलग्ने वा दशास्वंतर्दशासु च
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च । अनेनैव विधानेन पीडामुक्तं जगद्भवेत्
एवं युक्त्या मया दत्तो वरस्ते रघुनंदन । वरत्रयं तु संप्राप्य राजा दशरथस्तदा
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् । शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान्
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा । य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च । नरः स मुच्यते पापात्स्वर्गलोके महीयते
नारद उवाच- त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः । यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात्
महादेव उवाच- सर्वपापौघशमनं महादुःखविनाशनम् । शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम्
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम् । त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः । त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत् । त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः । बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि । मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः
द्विजानां दुर्विदं सांख्यं कलिकाले विशेषतः । अनिग्रहश्चेंद्रियाणां स्थिरत्वं मनसो नहि
विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम् । कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे । क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा
त्रिस्पृशां ये करिष्यंति विषयैरपि संयुताः । तेषामपि मया दत्तो मोक्षः सांख्यविवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी । बहुभिर्मुनिसंघैश्च कृतेयं च महामुने
कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि । सोमेन सोमजेनापि पापकोटिविनाशिनी
यस्या उपोषणकृतो हत्यायुक्त महेशितुः । हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि
कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा । उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात्
हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने । गता भृगूपदेशेन त्रिस्पृशा समुपोषणात्
शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने । ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात्