नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च । नमो विशालनेत्राय शुष्कोदरभयाकृते
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः । नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः । नमो घोराय रौद्राय भीषणाय कपालिने
नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते । सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च
अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते । नमो मंदगते तुभ्यं निस्त्रिंशाय नमोस्तु ते
तपसा दग्धदेहाय नित्यं योगरताय च । नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः
ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे । तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः । त्वया विलोकिताः सर्वे नाशं यांति समूलतः
प्रसादं कुरु मे देव वरार्होऽहमुपागतः । एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः
अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः । तुष्टोऽहं तव राजेंद्र स्तवेनानेन सुव्रत । वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन
दशरथ उवाच- अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित् । देवासुरमनुष्याणां पशुपक्षिसरीसृपाम्
शनिरुवाच- गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः । अदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम्
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात्
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम् । मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः । शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम् । कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् । पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि
तस्य पीडा न चैवाहं करिष्यामि कदाचन । गोचरे जन्मलग्ने वा दशास्वंतर्दशासु च
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च । अनेनैव विधानेन पीडामुक्तं जगद्भवेत्
एवं युक्त्या मया दत्तो वरस्ते रघुनंदन । वरत्रयं तु संप्राप्य राजा दशरथस्तदा
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् । शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान्
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा । य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च । नरः स मुच्यते पापात्स्वर्गलोके महीयते
नारद उवाच- त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः । यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात्
महादेव उवाच- सर्वपापौघशमनं महादुःखविनाशनम् । शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम्
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम् । त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः । त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत् । त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः । बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि । मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः