बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः । तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम्
नारद उवाच- इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् । मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप
नारद उवाच- शनिपीडा कथं याति तन्मे वद सुरोत्तम । त्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते
महादेव उवाच- देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात् । ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः
अयं तु देवो विख्यातः कालरूपी महाग्रहः । जटिलो वज्ररोमा च दानवानां भयंकरः
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो । मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा
रघुवंशेऽति विख्यातो राजा दशरथः पुरा । चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत्
कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः । रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम्
शाकटं भेदमत्युग्रं सुरासुरभयंकरम् । द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम्
एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवः । मंत्रयामास किमिदं भयंकरमुपस्थितम्
आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम् । ब्रुवंति सर्वतो लोकाः क्षय एष समागतः
देशाः सनगरा ग्रामा भयभीताः समंततः । पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान्
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः
वसिष्ठ उवाच- प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः । अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा
इति संचिंत्य मनसा साहसं परमं महत् । समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम्
रथमारुह्य वेगेन गतो नक्षत्रमंडलम् । सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम्
रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा । रथे तु कांचने दिव्ये मणिरत्नविभूषिते
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये । दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः
बभ्राज स तदाकाशे द्वितीय इव भास्करः । आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत्
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयंकरम् । हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत्
शनिरुवाच - पौरुषं तव राजेंद्र परं रिपुभयंकरम् । देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
मया विलोकिता राजन्भस्मसाच्च भवंतिते । तुष्टोऽहं तव राजेंद्र तपसा पौरुषेण च । वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि
दशरथ उवाच- रोहिणीं भेदयित्वा तु न गंतव्यं कदाचन । सरितः सागरा यावत्यावच्चंद्रार्कमेदिनी
याचितं तु मया सौरे नान्यमिच्छामि ते वरम् । एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम्
पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत । प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा
न भेत्तव्यं हि शकटं त्वया भास्करनंदन । द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन
शनिरुवाच- द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति । कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति
वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवः । रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् । राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत्
दशरथ उवाच- नमः कृष्णाय नीलाय शितिकंठनिभाय च । नमः कालाग्निरूपाय कृतांताय च वै नमः