संतुष्टाय विनीताय सर्वस्वसहिताय च । वेदाभ्यास तपो ज्ञानेंद्रियसंयमशालिने 6.32.
ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् । आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु
भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति । एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान्
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् । यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत्
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते । वापीकूपतडागानि उद्यानप्रभवानि च
पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्। निदाघकाले पानीय यस्य तिष्ठति वासव
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात् । एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम
कुलानि तारयेत्तस्य सप्तसप्त परानपि । दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः
दक्षिणायाः प्रदानेन स्मृतिं मेधां च विंदति । कृत्वापि पातकं कर्म यो दद्यादनुसंधिने
ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते । भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा
न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम् । उपस्थिते विवाहे च यज्ञे दाने च वासव
मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः । धनं फलति दानेन जीवितं जीवरक्षणात्
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते । फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते । सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः
रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् । नित्यस्नायी भवेद्दक्षः संध्यावेदजपान्वितः
अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम् । अग्निप्रवेशी नियतं ब्रह्मलोके महीयते
रसानां प्रतिसंहारे पशून्पुत्रांश्च विंदति । नाके चिरं स वसति उपवासी च यो भवेत्
सततं भूमिशायी यः स लभेदीप्सितां गतिम् । वीरासनं वीरशयं वीरस्थानमुपासतः
अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा । उपवासं च दीक्षां च अभिषेकं च वासव
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते । पावनं चरते धर्मं स्वर्गलोके महीयते
बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः । तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम्
नारद उवाच- इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् । मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप
नारद उवाच- शनिपीडा कथं याति तन्मे वद सुरोत्तम । त्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते
महादेव उवाच- देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात् । ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः
अयं तु देवो विख्यातः कालरूपी महाग्रहः । जटिलो वज्ररोमा च दानवानां भयंकरः
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो । मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा
रघुवंशेऽति विख्यातो राजा दशरथः पुरा । चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत्
कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः । रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम्
शाकटं भेदमत्युग्रं सुरासुरभयंकरम् । द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम्
एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवः । मंत्रयामास किमिदं भयंकरमुपस्थितम्