चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति । विशेषतो निदाघेषु स मुक्तः सर्वपातकैः
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः । सिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः
प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत् । सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः । तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला
गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम् । संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु
रजांसि तत्र यावंति दूरीभूतानि जैमिने । तावत्कल्पसहस्राणि मोदते विष्णुना सह
प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतले । स याति मंदिरं विष्णोः कुलकोटिसमन्वितः
गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति । शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा
तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः । स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः
प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः । स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम्
तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः । आयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते
तुलसीस्मरणेनैव सर्वपापं विनश्यति । तुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम्
योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम् । तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात्
तुलसीकाष्ठसंभूतां मालां वहति यो नरः । तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् । गंगायाः स्नानजं पुण्यं लभते नात्र संशयः
दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम् । समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत्
येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः । धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः
स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम् । तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र
यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः । कुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम्
यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च । तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः
यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम् । यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत्
त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मंदारकुन्दनलिनादिकमप्यनंतः । गृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम्
उत्पाट्य चैव तुलसीं भुवि निक्षिपंति पापाशयाऽमृतलताभ निदानभूताम् । अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति संततमेव सत्यम्
मूत्रं पुरीषं तुलसीतलेषु कुर्वंति येऽपि च मलं सततं मनुष्याः । देवाश्रये संचित पातकानां तेषां हरत्याशु हरिर्धनानि
नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुते । कुसुमैः पारिजाताद्यैर्गंधाद्यैरपि केशवः
त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभे । त्वया विना महाभागे समस्तं कर्म निष्फलम्
अतस्तु तुलसी देवि चिनोमि वरदा भव । चयनोद्भव दुःखं ते यद्देवि हृदि जायते
तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम् । कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः
करतालद्वयं दत्वा चिनोति तुलसीदलम् । यथा न कंपते शाखा तुलस्या द्विजसत्तम
पत्रस्य चयने देवी भग्नशाखा यदा भवेत् । तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः