तं दृष्ट्वा विस्मिता साह केनेहाभ्यर्चनं कृतम् । ज्ञात्वा तत्कर्मतत्सर्वं कृतं संरक्षणं तथा
ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम् । त्वया वित्तं नो गृहीतं भोजनायानुमंत्रितः
न गृहीतं भोजनं च न च वित्तं त्वया तदा । आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि
ततः प्रभातसमये रक्षमाणस्तया सदा । विश्रंभयित्वा तान्सर्वान्निर्गतोऽसि यथेच्छया
तदेतदन्यजनुषि सुकृतं चार्जितं त्वया । पंचत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः
तेन पुण्येन महता विमानमागमत्तदा । तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत्
हरिश्चंद्र उवाच- केनैव च विधानेन कस्मिन्मासे च सा तिथिः । कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि
सनत्कुमार उवाच- शृणुष्वावहितो राजन्कथ्यमानं मया तव । श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप
रोहिणी यदि लभ्येत जयंती नाम सा तिथिः । भूयोभूयो महाराज भवेज्जन्मनि कारणम्
विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम । यत्कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति
उपोषितस्ततः कृत्वा स्नानं कृष्णतिलैः सह । स्थापयेदव्रणं कुंभं पंचरत्नसमन्वितम्
वज्रमौक्तिकवैडूर्य पुष्परागेंद्रनीलकम् । पंचरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत्
तस्योपरि न्यसेत्पात्रं सौवर्णं लक्षणान्वितम् । सौवर्णां विन्यसेत्तत्र यशोदां नंदगेहिनीम्
ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम् । पिबमानं स्तनं मातुरपरं पाणिना स्पृशत्
आलोक्य मातरं प्रेम्णा सुखयंतं मुहुर्मुहुः । सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते
द्वि निष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते । त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः
thumb|अङ्गुलिविन्यासः2 thumb|अङ्गुलिविन्यासः4 thumb|अङ्गुलिविन्यास5 thumb|अङ्गुलिविन्यास6 तद्वच्च रोहिणीं कुर्यात्सौवर्णी राजतः शशी । अंगुष्ठमात्रस्तु शशी रोहिणी चतुरंगुला
कर्णयोः कुंडले दद्यात्कंठाभरणकं गले । एवं कृत्वा तु गोविंदं मात्रासार्द्धं जगत्पतिम्
क्षीरादिस्नपनं कृत्वा चंदनेनानुलेपयेत् । श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितम्
नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि । दीपं च कारयेत्तत्र पुष्पमंडपशोभितम्
गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः । एवं कृत्वा विधानं तु यथाविभवसारतः । गुरुं संपूजयेत् पश्चात्पूजां तत्र समापयेत्
महादेव उवाच- दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम् । मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम्
भगवन्केन दानेन सर्वतः सुखमेधते । यदक्षयं महार्घं च तन्मे ब्रूहि महातपः
एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः । प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह
हिरण्यदानं गोदानं भूमिदानं च वासव । एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते
सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति
फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम् । यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति
दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम् । दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम्
सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम् । बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम्