इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा । प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः
तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ । अवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम्
एतद्दीपस्य माहात्म्यं ये शृण्वंति नरा भुवि । सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम्
ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराः । ते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम्
नेत्ररोगा विनश्यंति यथा पापप्रभावजाः । आधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात्
न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः । गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव
नारद उवाच- देवदेव जगन्नाथ भक्तानामभयप्रद । व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि
श्रीमहादेव उवाच- सार्वभौमः पुरा ह्यासीद्धरिश्चंद्रो महीपतिः । तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम्
सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम् । तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम्
पालयामास धर्मेण पिता पुत्रमिवौरसम् । प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः
स पालयन्शुभं राज्यं परं विस्मयमागतः । न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित्
न चेदृशं नरैरन्यैर्विमानमधिरोहितम् । कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव
इति चिंतापरो भूत्वा विमानवरमास्थितः । ददर्श पार्थिववरो मेरुं शिखरिणां वरम्
तत्रास्ते च महात्मासौ द्वितीय इव भास्करः । आसीनं पर्वतवरे शैलपट्टे हिरण्मये
सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम् । दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम्
ववंदे चरणौ हृष्टस्तेनापि स च नंदितः । सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम्
भगवन्दुर्ल्लभा लोके संपच्चेयं यथा मम । कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि
तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि । सनत्कुमार उवाच-। शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम्
येन कृत्वा विशेषेण तव चानुग्रहोऽभवत् । त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः
स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बांधवैः । सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा
निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया । न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडितः
ततः कदाचिद्गहने सरश्चोत्फुल्लपंकजम् । दृष्ट्वा तत्र कृतो भावो गृह्णीवः पंकजानि वै
एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे । आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम्
ततो विक्रयतः कश्चिनैव गृह्णाति पंकजम् । तन्मठान्निर्गतः कश्चित्तत्रैव प्रांगणे स्थितः
तत्र स्थाने प्रविशता श्रुतो वादित्रनिस्वनः । कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः
इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोंतरम् । काशिराजस्तु विख्यात इंद्रद्युम्नस्तु पार्थिवः
तस्यास्ति दुहिता ख्याता नाम्ना चंद्रावती सती । उपोषिता महाभागा जयंतीमष्टमीं शुभाम्
तत्रागतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा । संतुष्टचित्तः स तदा हर्षस्तत्रागतो महान्
तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः । आदित्यसहितो यत्र पूज्यते भगवान्हरिः
तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम् । शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा