रूपसुंदर्युवाच-। ममापि स्मरणं जातं प्राकृतस्य च जन्मनः । मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि
कार्तिके च प्रबोधिन्यां मंदीभूते च दीपके । वर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात्
दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा । निद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा
उत्थितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणः । दृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः
विशंत्या मम पादेन दीपवर्त्तिर्विजृंभिता । तैलपात्रं च नमितं तेनाहं सुखभागिनी
तन्मया राजराजेंद्र दीपं चैव प्रकाशितम् । इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम्
त्वं च भर्त्ता तथा राज्यं पुत्राश्चैवंविधं सुखम् । दीपप्रबोधनाज्जातं ज्ञानमत्यंत दुर्ल्लभम्
तस्मात्सर्वप्रयत्नेन दीपव्रतमनुत्तमम् । आवां हि परया भक्त्या कुर्वश्चैव विशेषतः
तदेतत्कर्मणः प्राप्तं फलं राज्यादिसंपदः । पूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा
तस्मात्सर्वप्रयत्नेन विधिमंत्रादिपूर्वकम् । दीपव्रतं कृतं पुंभिः पुण्यं चंद्रार्कतारकम्
इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा । प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः
तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ । अवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम्
एतद्दीपस्य माहात्म्यं ये शृण्वंति नरा भुवि । सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम्
ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराः । ते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम्
नेत्ररोगा विनश्यंति यथा पापप्रभावजाः । आधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात्
न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः । गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव
नारद उवाच- देवदेव जगन्नाथ भक्तानामभयप्रद । व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि
श्रीमहादेव उवाच- सार्वभौमः पुरा ह्यासीद्धरिश्चंद्रो महीपतिः । तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम्
सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम् । तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम्
पालयामास धर्मेण पिता पुत्रमिवौरसम् । प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः
स पालयन्शुभं राज्यं परं विस्मयमागतः । न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित्
न चेदृशं नरैरन्यैर्विमानमधिरोहितम् । कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव
इति चिंतापरो भूत्वा विमानवरमास्थितः । ददर्श पार्थिववरो मेरुं शिखरिणां वरम्
तत्रास्ते च महात्मासौ द्वितीय इव भास्करः । आसीनं पर्वतवरे शैलपट्टे हिरण्मये
सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम् । दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम्
ववंदे चरणौ हृष्टस्तेनापि स च नंदितः । सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम्
भगवन्दुर्ल्लभा लोके संपच्चेयं यथा मम । कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि
तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि । सनत्कुमार उवाच-। शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम्
येन कृत्वा विशेषेण तव चानुग्रहोऽभवत् । त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः
स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बांधवैः । सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा