स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम् । चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै
यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तम । तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः
केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः । पत्रवृंते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि
लक्ष्मी सरस्वती चैव गायत्री चंडिका तथा । सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च
इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथा । पवनश्च कुबरेश्च तच्छाखायां वसंत्यमी
आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदा । वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले । तुलसीदलमाश्रित्य तान्येव निवसंति वै
तुलसीं सेवते यस्तु भक्तिभावसमन्वितः । सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा
छिन्दंति तृणजालानि तुलसीमूलजानि ये । तद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः
ग्रीष्मकाले द्विजश्रेष्ठ सुगंधैः शीतलैर्जलैः । तुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात्
चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति । विशेषतो निदाघेषु स मुक्तः सर्वपातकैः
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः । सिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः
प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत् । सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः । तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला
गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम् । संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु
रजांसि तत्र यावंति दूरीभूतानि जैमिने । तावत्कल्पसहस्राणि मोदते विष्णुना सह
प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतले । स याति मंदिरं विष्णोः कुलकोटिसमन्वितः
गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति । शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा
तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः । स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः
प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः । स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम्
तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः । आयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते
तुलसीस्मरणेनैव सर्वपापं विनश्यति । तुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम्
योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम् । तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात्
तुलसीकाष्ठसंभूतां मालां वहति यो नरः । तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् । गंगायाः स्नानजं पुण्यं लभते नात्र संशयः
दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम् । समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत्
येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः । धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः
स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम् । तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र
यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः । कुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम्
यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च । तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः