महादेव उवाच- एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः । न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते
महादेव उवाच- अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम । गोपीचंदनमाहात्म्यं यथादृष्टं श्रुतं मया
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः । गोपीचंदनलिप्तांगो मुच्यते ब्रह्महत्यया
तिलकं कुरुते यस्तु गोपीचंदनसंभवम् । मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः
गोपीचंदनलिप्तांगो वैष्णवो विष्णुतत्परः । सर्वदोषैः प्रमुच्येत यथा गंगांभसा पुनः
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च । गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः
स सद्यो मुच्यते पापादाजन्मशतकारणात् । द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम् । दंडाकारं ललाटे स्यात्पद्माकारं तु वक्षसि
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति । उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे
नाममुद्राद्वयं नीचैः शंखमेकं तयोरपि । मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत्
वामेऽपि चतुरः शंखान्नाममुद्रे च पूर्ववत् । चक्रमेकंगदे द्वे द्वे तयोरिति विभेदतः
ललाटे च गदामेकां नाममुद्रां तथा हृदि । त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ
हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत् । त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः
एकमेकं तदन्येषु तिलकेषु च धारयेत् । संप्रदायजमुद्रां तु धार्या शिष्टानुसारतः
यथारुच्यथवा धार्या न तत्र नियमा यतः । आचांडालाद्विशुद्ध्यंति तिलकस्यैव धारणात्
चांडालादधिकं मन्ये वैष्णवानां हि निंदकम् । स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा
वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः । नांतरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह
शंखचक्रधरो विप्रो वेदाध्ययनतत्परः । स वै नारायण इति वेदे चैव तु पठ्यते
तप्तचक्रधरो विप्रः पंक्तिपावनपावनः । तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते
तुलसीपत्रमालां वा तुलसीकाष्ठसंभवाम् । धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः
विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः । पंचत्वे यस्य तिलकं गोपीचंदनसंभवम्
विमानं स समारुह्य याति विष्णोः परं पदम् । कलौ नारद वक्ष्यामि तिलकं गोपिचंदनम्
ये कुर्वंति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित् । शंखं चैव तथा चक्रं दक्षिणे चापि सव्यके
हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते । मद्यपानरता ये च ये च स्त्रीबालघातकाः
अगम्यागमका ये वै दृश्यंते भुवि वाडव । भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः
संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः । अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः
काश्यां निवसतां ह्यत्र रामरामेति संजपन् । तेन पुण्यादियोगेन शिवो वै नात्र संशयः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गोपीचंदनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः
नारद उवाच- ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम् । सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे
येन व्रतानि सर्वाणि कृतान्येव न संशयः । सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत्