दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम् । तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे
शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः । पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम्
इतिहासपुराणज्ञं वाचकं तु विशेषतः । पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः
पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात् । ततस्तमाह राजासौ वाचकं विनयान्वितः
एतदायतनं विष्णोः कारितं च तवाग्रतः । चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम्
तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् । यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम्
स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम् । पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः
एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् । वर्षसंगतमात्रे तु तथा च मुनिसत्तम
अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान् । मया चास्य विमानं हि विष्णुना प्रेरितं दिवः
इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम् । श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम्
गंधपुष्पोपहारैस्तु न तुष्टिर्जायते तथा । देवानामिह सर्वेषां पुराणश्रवणाद्यथा
स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः । ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि
यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम् । इतिहासपुराणानां श्रवणे मुनिसत्तम
तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके । कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम
न तथा रोचते सा च यथा पुस्तकवाचनात् । अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम
पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम् । यश्चायमपरो विप्र इहायातो नरोत्तमः
संगत्यानुगतश्चायं धर्मश्रवणमुत्तमम् । श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः
कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः । एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम्
नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा । पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः
इत्येतत्कथितं कर्म आभ्यां चैव महामुने
महादेव उवाच- एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः । न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते
महादेव उवाच- अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम । गोपीचंदनमाहात्म्यं यथादृष्टं श्रुतं मया
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः । गोपीचंदनलिप्तांगो मुच्यते ब्रह्महत्यया
तिलकं कुरुते यस्तु गोपीचंदनसंभवम् । मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः
गोपीचंदनलिप्तांगो वैष्णवो विष्णुतत्परः । सर्वदोषैः प्रमुच्येत यथा गंगांभसा पुनः
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च । गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः
स सद्यो मुच्यते पापादाजन्मशतकारणात् । द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम् । दंडाकारं ललाटे स्यात्पद्माकारं तु वक्षसि
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति । उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे
नाममुद्राद्वयं नीचैः शंखमेकं तयोरपि । मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत्