सनत्कुमार उवाच- गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा । श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने
मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् । कांचनेन विमानेन वैडूर्यकृतवेदिना
मणिमुक्तविचित्रेण किंकिणीजालशोभिना । आगतं पुरुषं तत्र आसनाद्देवसत्तम
ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः । गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः
शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम् । पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह
सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव । समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः । इत्युक्ते च ततश्चान्यो विमानवरमास्थितः
आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट् । स पूजितो विमानस्थः प्रश्रयावनतेन च
सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम् । किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम्
अत्र मे कौतुकं जातं कृता हि स्वयमेव तु । यदस्य भवता पूजा सविस्मयमनंतरम्
तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु । मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ
यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात् । ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम्
यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः । कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः
तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम् । यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते
धर्म उवाच- वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम् । तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः
कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा । मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता
तस्माद्द्वादशवर्षाणि जंबुकस्त्वं भविष्यसि । इत्युक्तः स च बभ्राम जंबुको मेदिनीतलम्
वेतसी वेत्रवत्योस्तु संगमे लोकविश्रुते । शापांतो भविता पुत्र इत्युक्तं गिरिकन्यया
तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत् । दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ
तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः । विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत्
दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम् । तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे
शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः । पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम्
इतिहासपुराणज्ञं वाचकं तु विशेषतः । पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः
पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात् । ततस्तमाह राजासौ वाचकं विनयान्वितः
एतदायतनं विष्णोः कारितं च तवाग्रतः । चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम्
तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् । यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम्
स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम् । पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः
एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् । वर्षसंगतमात्रे तु तथा च मुनिसत्तम
अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान् । मया चास्य विमानं हि विष्णुना प्रेरितं दिवः
इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम् । श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम्