तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः । तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः
सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौ । तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते । तपस्तपति योऽरण्ये वनमूलफलाशनः
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने । श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते । जगद्यथा निरालोकं जायते शशिभास्करौ
विना तथा पुराणं हि ध्येयमस्मान्महामुने । तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः
संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः । सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित्
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् । धनं धान्यं हिरण्यं वा वासांसि विविधानि च
ये यच्छंति सुपात्राय ते यांति च परां गतिम् । गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान्
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु । अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् । स तारयति वै वंशान्दशपूर्वान्दशापरान्
विमानेन च दिव्येन विष्णुलोकं स गच्छति । न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः । विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम्
देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् । सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति । स्थित्वा कल्पशतान्यत्र राजा भवति भूतले
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत्
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् । इतिहासपुराणाभ्यां विष्णोरायतने शुभम् । नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम्
महादेव उवाच- अत्राप्युदाहरंतीममितिहासं पुरातनम् । पुराणं परमं पुण्यं सर्वपापहरं शुभम्
कुमारेण च लोकानां नमस्कृत्य पितामहम् । प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना
सनत्कुमार उवाच- गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा । श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने
मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् । कांचनेन विमानेन वैडूर्यकृतवेदिना
मणिमुक्तविचित्रेण किंकिणीजालशोभिना । आगतं पुरुषं तत्र आसनाद्देवसत्तम
ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः । गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः
शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम् । पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह
सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव । समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः । इत्युक्ते च ततश्चान्यो विमानवरमास्थितः
आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट् । स पूजितो विमानस्थः प्रश्रयावनतेन च
सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम् । किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम्
अत्र मे कौतुकं जातं कृता हि स्वयमेव तु । यदस्य भवता पूजा सविस्मयमनंतरम्