वेदा यज्ञास्तथा मंत्राः संति विप्रेषु नित्यशः । न भांत्युज्झित सत्येषु तस्मात्सत्यं समाचरेत्
नारद उवाच-। तपसां मे फलं ब्रूहि पुनरेव विशेषतः । सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम्
प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम् । सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु
तपो हि परमं प्रोक्तं तपसा विंदते फलम् । तपोरतो हि यो नित्यं मोदते सह दैवतैः
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः । तपसा मोक्षमाप्नोति तपसा विंदते महत्
ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च । तपसा लभते सर्वं मनसा यद्यदिच्छति
नातप्ततपसो यांति ब्रह्मलोकं कदाचन । यत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः
तत्सर्वं समवाप्नोति परत्रेह च मानवः । सुरापः परदारी च ब्रह्महा गुरुतल्पगः । तपसा तरते सर्वं सर्वतश्च विमुच्यते
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः । ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः
षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् । तपसा दिवि मोदंते समेता दैवतैः सह
तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः । तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः
सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौ । तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते । तपस्तपति योऽरण्ये वनमूलफलाशनः
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने । श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते । जगद्यथा निरालोकं जायते शशिभास्करौ
विना तथा पुराणं हि ध्येयमस्मान्महामुने । तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः
संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः । सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित्
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् । धनं धान्यं हिरण्यं वा वासांसि विविधानि च
ये यच्छंति सुपात्राय ते यांति च परां गतिम् । गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान्
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु । अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् । स तारयति वै वंशान्दशपूर्वान्दशापरान्
विमानेन च दिव्येन विष्णुलोकं स गच्छति । न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः । विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम्
देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् । सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति । स्थित्वा कल्पशतान्यत्र राजा भवति भूतले
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत्
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् । इतिहासपुराणाभ्यां विष्णोरायतने शुभम् । नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम्
महादेव उवाच- अत्राप्युदाहरंतीममितिहासं पुरातनम् । पुराणं परमं पुण्यं सर्वपापहरं शुभम्
कुमारेण च लोकानां नमस्कृत्य पितामहम् । प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना