महादेव उवाच- पानीयदानं परमं दानानामुत्तमं सदा । तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत्
अर्द्धं पापं संहरंति पुरुषस्य विकर्मणः । कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः
स च तारयते वंशं यस्य खात जलाशये । गावः पिबंति विप्राश्च साधवश्च नराः सदा
निदाघकाले पानीयं यस्य तिष्ठति नारद । दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः । त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम् । कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत्
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम्
चतुर्विधानां भूतानां तडागस्योपलक्षयेत् । तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम्
देवामनुष्यागंधर्वाः पितरो नाग राक्षसाः । स्थावराणि च भूतानि संश्रयंति जलाशयम्
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति । अग्निहोत्रफलं तस्य जायते नात्र संशयः
हेमंते शिशिरे चैव सलिलं यस्य तिष्ठति । गोसहस्रफलं तस्य लभते नात्र संशयः
वसंतेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि । अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः
अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु । अतीतानागतौ चोभौ पितृवंशौ महाऋषे
तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत् । पुत्रपौत्रा भवंत्येते पादपा नात्र संशयः
परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् । पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन्
छायया चातिथीन्सर्वान्पूजयंति महीरुहाः । किन्नरोरगरक्षांसि देवगंधर्वमानवाः
तथा ऋषिगणाश्चैव संश्रयंति महीरुहान् । पुष्पिताः फलवंतश्च तर्पयंतीह मानवान्
इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः । तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः
एते स्वर्गान्नहीयंते ये चान्ये सत्यवादिनः । सत्यमेव परं ब्रह्म सत्यमेव परं तपः
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् । सत्यं देवेषु जागर्ति सत्यं च परमं पदम्
तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम् । आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्
सत्यं यज्ञस्तथा दानं मंत्रा देवी सरस्वती । व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च
सत्येन वायुरभ्येति सत्येन तपते रविः । सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति
पूजनं सर्वदेवानां सर्वतीर्थावगाहनम् । सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते
सत्येन देवाः प्रीयंते पितरो ऋषयस्तथा । सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम्
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते । मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम्
सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः । अप्सरोगणसंघुष्टैर्विमानैः परितो वृताः
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् । अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् । आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः । अनृतं ये न भाषंते ते नराः स्वर्गगामिनः