तस्मादन्नं विशेषेण दातुमिच्छंति मानवाः । अन्नेन सदृशं दानं न भूतं न भविष्यति
अन्नेन धार्यते विश्वं जगत्स्थावरजंगमम् । अन्नमूर्जस्करं लोके प्राणाह्यन्ने प्रतिष्ठिताः
दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने । कुटुंबं पीडयित्वापि आत्मनो भूतिमिच्छता
नारदासौ विदांश्रेष्ठो यो दद्यादन्नमर्थिने । ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः
आत्मीयभूतिमन्विच्छेत्काले द्विजमुपस्थितम् । श्रांतमध्वनि वर्त्तंतं गृहस्थं गृहमागतम्
अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः । क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम्
नाभिनिंदेच्च अतिथिं न द्रुह्याच्च कथंचन । ब्रह्मविदेऽर्पयेदन्नं तच्च दानं विशिष्यते
श्रांतायादृष्टपूर्वाय अन्नमध्वनि वर्तिने । यो दद्याच्च परिक्लिष्टं सर्वधर्ममवाप्नुयात्
पितृदेवांस्तथा विप्रातिथींश्च महामुने । यो नरः प्रीणयेतान्नैस्तस्य पुण्यमनंतकम्
कृत्वापि सुमहत्पापं यो दद्यादन्नमर्थिने । ब्राह्मणाय विशेषेण स तु पापैः प्रमुच्यते
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महत्फलम् । अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते
न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च । भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च
अन्नदस्य शुभा वृक्षाः सर्वकामफलान्विताः । संभवंतीह लोके च हर्षयुक्तास्त्रिविष्टपे
अन्नदानेन ये लोकास्तान्शृणुष्वमहामुने । विमानानि प्रकाशंते दिवि तेषां महात्मनाम्
नानासंस्थानरूपाणि नानाकामान्वितानि च । सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः
हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः । घोषवंति च यानानि मुक्तान्यथ सहस्रशः
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च । क्षीरं स्रवंत्यः सरितस्तथैवाज्यस्य पर्वताः
प्रासादाः शुभ्रवर्णाभाः शय्याश्च कनकोज्वलाः । तदन्नं दातुमिच्छंति तस्मादन्नप्रदो भवेत्
एते लोकाः पुण्यकृतामन्नदानं महत्फलम् । तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे अन्नदानप्रशंसानाम षड्विंशोऽध्यायः
महादेव उवाच- पानीयदानं परमं दानानामुत्तमं सदा । तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत्
अर्द्धं पापं संहरंति पुरुषस्य विकर्मणः । कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः
स च तारयते वंशं यस्य खात जलाशये । गावः पिबंति विप्राश्च साधवश्च नराः सदा
निदाघकाले पानीयं यस्य तिष्ठति नारद । दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः । त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम् । कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत्
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम्
चतुर्विधानां भूतानां तडागस्योपलक्षयेत् । तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम्
देवामनुष्यागंधर्वाः पितरो नाग राक्षसाः । स्थावराणि च भूतानि संश्रयंति जलाशयम्
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति । अग्निहोत्रफलं तस्य जायते नात्र संशयः