ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः । तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात्
महादेवउवाच- प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम् । महादानपराः पुण्यकर्माणो यत्र संति हि
यत्र गंगा च यमुना यत्र चैव सरस्वती । तं देवतीर्थप्रवरं देवानामपि दुर्लभम्
ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति । ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी
तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् । प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत्
महापापाद्विनिर्मुक्तः स याति परमं पदम् । देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता
यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् । धनिको दीर्घजीवी च जायते नात्र संशयः
यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः । तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति
स चाक्षयवटः ख्यातः कल्पांतेपि च दृश्यते । शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः
तत्र पूजां प्रकुर्वंति मानवा विष्णुवल्लभाः । सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत्
माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः । तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते
यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः । स्वस्वस्थानं समाश्रित्य तत्र तिष्ठंति नित्यशः
गोघ्नो वापि च चांडालो दुष्टो वा दुष्टचेतनः । बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा
स वै चतुर्भुजो भूत्वा वैकुंठे वसते चिरम् । प्रयागे तु नरो यस्तु माघस्नानं करोति च
न तस्य फलसंख्यास्ति शृणु देवर्षिसत्तम । आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम
तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः । ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी
मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु । मकरस्थे रवौ माघे प्रातःकाले तथामले
गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि । योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे
अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम् । पंच वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम्
चंद्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम । चराचराश्च ये जीवास्तथैव मनुजादयः
प्रयागं तीर्थमाश्रित्य वैकुंठं यांति तेऽचिरात् । ये वसिष्ठादयस्तत्र ऋषयः सनकादयः
तेऽपि प्रयागजं तीर्थं सेवंते च पुनःपुनः । यत्र विष्णुश्च रुद्रश्च यत्रेंद्रश्च तथा पुनः
तेऽपि सर्वे वसंतीह प्रयागे तीर्थसत्तमे । दानं तत्र प्रशंसंति नियमांश्च तथैव च
तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः
नारदउवाच- एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया । सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम्
सदाशिव उवाच- शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः । तस्य भार्या च विख्याता चंद्ररूपा महासती
सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् । त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम्
सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् । कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद