परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा । कर्माणि कुरुते यस्तु सुविचार्य पुनः पुनः
गोब्राह्मणहितैषी यस्तस्य तुष्टोऽस्म्यहं सदा । स्वयं निरुक्तं वचनं यत्नाद्यः परिपालयेत्
प्रपन्नं याति यत्नाद्यस्तस्य तुष्टोऽस्म्यहं सदा । ददात्यनुपकारिभ्यो दानानि द्विजसत्तम
मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा । कर्मणा येनतुष्टोऽस्मि निरुक्तं तत्समासतः
रुष्टोऽस्मि कर्मणा येन विप्र वच्मि शृणुष्वतम् । परहिंसारतो यस्तु निर्द्दयः सर्वजंतुषु
अहंयुः सर्वदा क्रुद्धः समां नयति शत्रुताम् । असत्यभाषीक्रूरश्च परनिंदापरस्तु यः
कविवर्तनविध्वंसी समां नयति शत्रुताम् । अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनी तथा
मोहात्त्यजति यो मूढः समां नयति शत्रुताम् । पितृभिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः
गुर्ववज्ञाकरो विप्र समां नयति शत्रुताम् । आरामच्छेदिनो ये च जलाशयविलायिनः
ग्रामनाशकरायेचतेमांनयंतिशत्रुताम् । परस्त्रियं समालोक्य विषादं यान्ति ये जनाः १०० 7.19.
शृण्वंति पापचर्चां च तेषां रुष्टोस्म्यहं सदा । द्विषंति नाथं ये मूढा अनाथस्वं हरंति ये
विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा । ये च गोवीर्यहंतारो वृषलीपतयश्च ये
अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा । ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः
परदारातिरक्ता ये तेषां रुष्टोऽस्म्यहं सदा । एकादश्यां भुंजते ये लोभात्पापधियो नराः
वेदनिंदाकरा ये च तेषांरुष्टोऽस्म्यहं सदा । पापबुद्धिरता ये च मित्रद्रोहरतास्तथा
धात्रीतरुं च ये घ्नंति तेषां रुष्टोऽस्म्यहं सदा । दिवसे मैथुनं ये च कुर्वंते काममोहिताः
रजस्वला स्त्रियां चैव तेषां रुष्टोऽस्म्यहं सदा । ये चादृष्टार्तवां नारीं मोहाद्गच्छंति सत्तम
व्रतस्थां च सदा जाल्मास्ते मां नयंति शत्रुताम् । अमावास्यातिथौ ये च कुर्वंते निशिभोजनम्
भोजनद्वयमेवार्के तेषां रुष्टोऽस्म्यहं सदा । आमिषं मैथुनं तैलममावास्यादिने द्विजाः
न ये त्यजंति विप्रेन्द्र तेषां रुष्टोऽस्म्यहं सदा । बहुनात्र किमुक्तेन संक्षेपात्ते वदाम्यहम्
निंदंति वैष्णवान्ये च तेषां रुष्टोस्म्यहं सदा । व्यास उवाच- इत्युक्त्वा भगवान्विष्णुरदृश्यः सहसाऽभवत्
स च विप्रः समुत्तस्थौ त्यक्तनिद्रस्तु मंचतः । केशवोक्तेन वाक्येन स विप्रो हरिभक्तिकृत्
संत्यज्य सकलं कार्यं क्रियायोगरतोऽभवत् । नारायणस्य नैवेद्यं भुंजतोऽपि फलं त्विदम्
हरिपूजाकृतां पुंसां न जाने किं भवेदिति । समासेन ब्रवीमि त्वां शृणु सत्तम जैमिने
सकृत्कृत्वा हरेः पूजां प्राप्यते परमं पदम्। मानुष्यं दुर्ल्लभं लोके पूजा तत्रापि चक्रिणः
भक्तिस्तत्रापि विप्रेन्द्र दुर्ल्लभा परिकीर्तिता
संसाराब्धिं सर्वदुःखप्रपूर्णं तर्तुं वांछा यस्य चित्तेस्ति पुंसः । भक्त्या नित्यं वासुदेवस्य पूजां कुर्यादार्यः कर्मणां सोऽखिलानाम्
सूत उवाच- एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततः । कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम्
जैमिनिरुवाच- विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया । तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम्
व्यास उवाच- इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौ । संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा