जटाजूटे च संधार्य वर्षाणामयुतं स्थितम् । न निःसृता तदा गंगा ईशस्यैव प्रभावतः
विचारितं तदा तेन क्व गता मम मातृका । स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु
ततः कैलासमगमत्स तु भगीरथो नृपः । तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः
आराधितस्तदा तेन दत्तवानहमापगाम् । एकं केशं परित्यज्य दत्ता त्रिपथगा तदा
स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः । अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम्
हरिद्वारे यदायाता विष्णुपादोदकी तदा । तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम्
तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः । प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः
ब्रह्महत्यादि पापानां राशयः संत्यनेकशः । विलयं यांति ते सर्वे हरेर्दर्शनतः सदा
एकदा केशवस्थाने हरिद्वारे ह्यहं गतः । तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान्
ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम् । चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः
वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः । ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम्
तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम् । कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा
यत्र गंगा महारम्या नित्यं वहति निर्मला । एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम्
उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम् । अश्वमेधे कृते यागे गोसहस्रे तथैव च
तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः । गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः
एवंविधानि पापानि बहून्यपि च वै द्विज । विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः
महादेव उवाच-। गांगं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तम । यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात्
गंगागंगेति योब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
चरणाब्जसमुद्भूता गंगा नामेति विश्रुता । पापानां स्थूलराशीनां नाशिनी चेति नारद
नर्मदा सरयूश्चैव तथा वेत्रवती नदी । तापी पयोष्णी चंद्रा च विपाशा कर्मनाशिनीम्
पुष्या पूर्णा तथा दीपा विदीपा सूर्यतेजसा । सहस्रवृषदानात्तु यत्फलं लभते ध्रुवम्
तत्फलं समवाप्नोति गंगादर्शनतः क्षणात् । इयं गंगा महापुण्या ब्रह्मघ्नानां विशेषतः
तेषां निरययुक्तानां गंगा पापप्रहारिणी । चंद्र सूर्योपरागे च यत्फलं विद्यतेऽनघ
तत्फलं समवाप्नोति गंगादर्शनमात्रतः । यथा सूर्योदये तात तमो गच्छति दूरतः
तथा गंगाप्रभावेन विलयं याति पातकम् । मान्येयं सर्वदा लोके पवित्रा पापनाशिनी
कल्याणरूपा सततं विष्णुना निर्मिता पुरा । दिव्यरूपा तु जननी दीनानां पावनी स्मृता
देवानां च यथा विष्णुस्तथा गंगोत्तमा नदी । ये कुर्वंति नराः स्नानं माघमासे निरंतरम्
न तेषां विद्यते दुःखं कल्पानां च शतत्रयम् । यत्र गंगा च यमुना यत्र चैव सरस्वती । तत्र स्नात्वा च पीत्वा च मुक्तिभागी न संशयः
महादेव उवाच-। त्वद्वार्तां प्रियतो ब्रवीमि यदहं सा स्तुस्तुतिस्ते प्रभो यद्भुंजे तव तन्निवेदनमथो यद्यामि सा प्रेष्यता । यच्छांतः स्वपिमि त्वदंघ्रियुगले दंडप्रणामोऽस्तु नः। स्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वरः प्रीयताम्
दृष्टेन वंदितेनापि स्पृष्टेन च धृतेन के