षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम् । एका वंशधरं त्वेकं यथेष्टं वरशालिनी
तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ । ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम्
कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम्
तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः । एकः पंचजनो नाम पुत्रो राजा बभूव ह
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् । दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः
यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः । समुद्र मानयित्वैनां दुहितृत्वमकल्पयत्
नारद उवाच- कथं गंगा समानीता किं तपस्तेन वै कृतम् । तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे
महादेव उवाच- पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ । तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा
आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः । तेन दत्ता इयं गंगा आकाशात्समुपस्थिता
तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः । गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा
जटाजूटे च संधार्य वर्षाणामयुतं स्थितम् । न निःसृता तदा गंगा ईशस्यैव प्रभावतः
विचारितं तदा तेन क्व गता मम मातृका । स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु
ततः कैलासमगमत्स तु भगीरथो नृपः । तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः
आराधितस्तदा तेन दत्तवानहमापगाम् । एकं केशं परित्यज्य दत्ता त्रिपथगा तदा
स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः । अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम्
हरिद्वारे यदायाता विष्णुपादोदकी तदा । तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम्
तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः । प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः
ब्रह्महत्यादि पापानां राशयः संत्यनेकशः । विलयं यांति ते सर्वे हरेर्दर्शनतः सदा
एकदा केशवस्थाने हरिद्वारे ह्यहं गतः । तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान्
ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम् । चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः
वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः । ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम्
तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम् । कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा
यत्र गंगा महारम्या नित्यं वहति निर्मला । एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम्
उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम् । अश्वमेधे कृते यागे गोसहस्रे तथैव च
तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः । गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः
एवंविधानि पापानि बहून्यपि च वै द्विज । विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः
महादेव उवाच-। गांगं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तम । यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात्
गंगागंगेति योब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
चरणाब्जसमुद्भूता गंगा नामेति विश्रुता । पापानां स्थूलराशीनां नाशिनी चेति नारद
नर्मदा सरयूश्चैव तथा वेत्रवती नदी । तापी पयोष्णी चंद्रा च विपाशा कर्मनाशिनीम्