हंसकोकिलनादैश्च मयूरध्वनिनादितम् । श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः
पारिजातकपुष्पैश्च कदंबोदुंबरैस्तथा । नानापुष्पैः सुगंधाढ्यैर्वासितं तद्वनं गिरौ
सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम् । केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः
केचिदूर्ध्वभुजास्तत्र अंगुष्ठाग्रैः स्थिताः परे । शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः
निराहाराश्च केप्यत्र केचित्पर्णाशने रताः । कंदमूलफलाहाराः केचिन्मौनव्रताः स्थिताः
एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः । केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम्
आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः । देवखातान्यनेकानि तडागानि बहूनि च
पर्वतोऽयं महाराज दृश्यते किल सर्वतः । मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः
तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम् । शृंगदर्शनमात्रेण मुक्तिरेव न संशयः
दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः । अत्र गंगा महद्रम्या पातालेति समाश्रिता
तत्र च स्नानमात्रेण महापापैः प्रमुच्यते । श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतौ ध्रुवम्
केदारे ह्युदकं पीत्वा पुनर्जन्म न विद्यते । तापसानां महत्स्थानं योगिनां च तथैव च
तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत् । अयं विज्ञानदेवोऽसौ महापातकनाशनः
सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम् । नित्यमप्सरसो यत्र गायंति च रमंति च
अतः पर्वताराजोऽयं दर्शने सौख्यकारकः । तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छंति ये नराः
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे श्रीशैलोपाख्याने एकोनविंशोऽध्यायः
श्रीमहादेवउवाच- हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम । यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम्
यत्र देवा वसंतीह ऋषयो मनवस्तथा । यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा । यस्य दर्शनमात्रेण दूरतो याति पातकम्
यत्र गंगा महारम्या जाता पुण्य विशेषतः । विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः । उद्धारः पूर्वजानां तु कृतस्तेन महात्मना
नारदउवाच- कोऽयं देव समाख्यातो भगीरथ महातपाः । येन तीर्थं समानीतं लोकानां हितकारणात्
गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् । लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम्
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
कथं तेन समानीता किं कार्यं वद सुव्रत । महादेव उवाच- येन गंगा यथानीता गंगाद्वारेऽतिशोभने
तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः । पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः । तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा । तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत्
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् । राजा तु तत्र देशेन तर्जितो धर्मकारणात्
स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे । रक्षितो भार्गवेणाथ कृपया तत्र वै तदा