तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम् । यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः
देही भुंक्ते वशो राजन्त्राणं न ज्ञानतः परम् । कृष्णादीनां देहबंधे सुखदुःखादि वर्तते
तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः । ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम्
धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनः । शत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि
इतिहासमिमं श्रुत्वा न दुःखै परिभूयते । धर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् । ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः
वैश्यश्च बह्वीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत् । यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि
स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तु । आकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते
कलं च कोकिलालापं रूक्षं ध्वांक्षरुतं यथा । आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः । संतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत्
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ । अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत्
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् । जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् 6.18.
इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम् । ये शृण्वंति नरश्रेष्ठा न तेषां पातकं क्वचित्
तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम् । श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः
स्वगृहे रोपिता चैव तुलसी पापनाशिनी । दर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः
कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम् । वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम्
एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा । भुवि संति दाननिरताः कालेन शुद्धिं गताः । तेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वै। विष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ सांप्रतम्
युधिष्ठिर उवाच- श्रीशैलः पर्वतो रम्यः कुत्र तिष्ठति नारद । किं तत्र वर्त्तते तीर्थं कस्य देवस्य पूजनम् । कस्यां दिशि समाख्यातो लोकेषु च वदाधुना
नारद उवाच- शृणु राजन्प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमम् । यं श्रुत्वा मुच्यते लोको बालहत्यादि पातकात्
तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितम् । नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्
हंसकोकिलनादैश्च मयूरध्वनिनादितम् । श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः
पारिजातकपुष्पैश्च कदंबोदुंबरैस्तथा । नानापुष्पैः सुगंधाढ्यैर्वासितं तद्वनं गिरौ
सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम् । केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः
केचिदूर्ध्वभुजास्तत्र अंगुष्ठाग्रैः स्थिताः परे । शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः
निराहाराश्च केप्यत्र केचित्पर्णाशने रताः । कंदमूलफलाहाराः केचिन्मौनव्रताः स्थिताः
एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः । केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम्
आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः । देवखातान्यनेकानि तडागानि बहूनि च
पर्वतोऽयं महाराज दृश्यते किल सर्वतः । मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः
तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम् । शृंगदर्शनमात्रेण मुक्तिरेव न संशयः
दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः । अत्र गंगा महद्रम्या पातालेति समाश्रिता