मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिव । यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम्
कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम् । अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः
तदा सस्मार देवेशश्चतुःषष्टिगणं रणे । विज्ञानस्मरणाद्देव्यः संप्राप्ताः शंकरांतिकम्
कृतांजलिपुटाः प्रोचुः शिव किं करवामहे
महादेव उवाच- य एते दैत्यमांसस्य राशयो गिरिसन्निभाः । भक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेंद्री सर्वाः स्वगणशोभिताः
एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान् । क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात्
अथ जालंधरवपुः क्षीणं क्रांतं तु शक्तिभिः । ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता
प्रभासा शंकरं प्राप्ता जगामादर्शनं क्षणात् । तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे
एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात् । वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः
तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम् । मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः
पूजयिष्यंति ते नित्यं स्वगृहे योगिनीगणम् । तत्तेषां वांछितं सर्वं सिध्यतां त्वत्प्रसादतः
महादेव उवाच- यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः । युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले
मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम् । भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम्
इति दत्तवरा हृष्टा योगिन्यो विभुना मृधे । अत्रांतरे भवानीं तां सस्मार वृषभं हरः
स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात् । सखीगणसमायुक्ता संप्राप्ता हरवल्लभा
संत्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत् । गिरिजासहितो राजन्महेशो मुमुदे ततः
योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृप । जालंधरकबंधस्थं ताः श्रुत्वा जहृषुर्भृशम्
मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदा । ततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात्
स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ । तीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः
ग्रसंतोऽद्यापि मांसानि काले चापि पिबंत्यसृक् । तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः
ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः । ऋषयो मरुतो देवा स्तुवंति स्म महेश्वरम्
दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयः । कृताभिषेकस्य च तस्य निःस्वनान्संनादिता दुंदुभयोऽपि चक्रिरे
उपरि परिमलांधैः सुस्वरं संपतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेण । अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः
हते तदा सिंधुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौ । प्रसूनवृष्टिर्ननृतुस्तदांगना जगुश्च यक्षाः सुरकिन्नराद्याः
शंभुर्वैरिजयोत्थितेन यशसा स्फारांगकीर्तिर्गिरिं । स्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदा । गौरी चापि जगाम चाशु गिरितः श्वेतः । सखीसंवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवांगना
देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्। प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शंकरः । किं वक्तव्यमतः परं यदि भवेदीशानुकंपा परा । कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः
देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरे । बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः
नारद उवाच- इति जालंधरस्योक्तं यथावदनुपूर्वशः । चरितं लोकवीरस्य राजन्नत्यद्भुतं तव
विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृप । सर्वोऽपि भुंक्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम्