हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात् । गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः
पूरयामास समरे सिंधुजः पार्वतीपतिम् । ततः शूलेन निहतो रुद्रेणोरसि दानवः
निःससार मुखात्तस्य ज्वरो जंभो भयंकरः । स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः
दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम् । हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ
शिवस्य निःसृतेनासौ शरभेण निपातितः । अजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम्
आययौ वृषभाभ्याशे तरसा सागरात्मजः । वृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे
जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ । ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः
तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ । रथारूढो धनुर्गृह्य कालकेदारमब्धिजः
पूरयामास विशिखैः शिवमुर्वीतले स्थितम् । उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत्
दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम् । जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम्
तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम् । तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः
सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ । पद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः
अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरः । शस्त्रजालं जहाराशु योगमायाबलेन सः
ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः । शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ
विशालकरबंधेन बबंध समरे शिवम् । ततस्तस्य कृपाणेन चिच्छेद करकाननम्
सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितः । लीलया योधयामास रणेऽसौ सिंधुनंदनः
छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा । नियुद्धेन नदीसूनुस्तोषयामास शंकरम्
परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम् । जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम्
मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि । शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम्
इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि । ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम्
मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा । सूर्यकोटिसहस्राभं ग्रसंतं सचराचरम्
तेन चक्रेण चिच्छेद शिरो जालंधरस्य च । ततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् 6.18.
दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत् । व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप
भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत । स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम्
ततो दिशः प्रणष्टास्ता गगनं विलयं गतम् । न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात्
आपतंतं जघानाशु रुद्रश्चक्रेण तच्छिरः । द्विधा भूत्वाथ राजेंद्र पपात हिमवद्गिरौ
ततो जालंधरस्याशु शिरसः शकले किल । विशतः सर्वभूतानां पश्यतां स्म वृषाकपौ
तस्य कंठात्समुद्भूता दैत्याः शतसहस्रशः । ते हतास्तेन चक्रेण कपर्दिकरशालिना
जालंधरकबंधं तन्ननर्त रुधिरारुणम् । पुनः पुनः समुद्भूतास्तस्य कंठात्तु दानवाः
पुनः पुनर्बलवता छिन्नाश्चक्रेण शंभुना । मेदसा सिंधुपुत्रस्य पूरिता सकला मही