मुहूर्तं परमात्मानं तमेकाकिनमव्ययम् । अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि
वृंदा तव प्रिया राज्ञी हृता सा योगमायया । ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम्
इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम् । स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि
जालंधर उवाच- देवमुक्तपदं लभ्यं कृतकृत्येन केनचित् । इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः
शिव उवाच- मत्स्थानं परमं क्षेत्रं यदि त्वं गंतुमुत्सुकः । तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः
ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ । महेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम्
त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम्
नारद उवाच- एवमुक्तो जघानाशु सिंधुजं विशिखैः शिवः । ते शराः सिंधुपुत्रस्य देहलग्ना विभांति च
यथा लोहगिरिप्रांते वेणवो वह्निदीपिताः । जालंधरो हरस्यांगं पूरयामास मार्गणैः
तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम् । जालंधरेशयोर्युद्धं तथा द्वंद्वमभून्नृप
हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात् । गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः
पूरयामास समरे सिंधुजः पार्वतीपतिम् । ततः शूलेन निहतो रुद्रेणोरसि दानवः
निःससार मुखात्तस्य ज्वरो जंभो भयंकरः । स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः
दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम् । हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ
शिवस्य निःसृतेनासौ शरभेण निपातितः । अजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम्
आययौ वृषभाभ्याशे तरसा सागरात्मजः । वृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे
जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ । ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः
तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ । रथारूढो धनुर्गृह्य कालकेदारमब्धिजः
पूरयामास विशिखैः शिवमुर्वीतले स्थितम् । उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत्
दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम् । जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम्
तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम् । तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः
सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ । पद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः
अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरः । शस्त्रजालं जहाराशु योगमायाबलेन सः
ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः । शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ
विशालकरबंधेन बबंध समरे शिवम् । ततस्तस्य कृपाणेन चिच्छेद करकाननम्
सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितः । लीलया योधयामास रणेऽसौ सिंधुनंदनः
छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा । नियुद्धेन नदीसूनुस्तोषयामास शंकरम्
परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम् । जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम्
मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि । शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम्
इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि । ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम्