रतिं त्यक्त्वा वियोगार्तः श्रीकंठोऽहं त्वया कृतः । वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये
यज्ञे दक्षस्याग्निकुंडे शिरो देवि हुतं त्वया । भूयो हि भवती लब्धा कथं त्यजसि मां पुनः
उतिष्ठोतिष्ठ चार्वंगि गिरिजे मां प्रबोधय । अत्रांतरे शिवं ज्ञात्वा दैत्यमायाविमोहितम्
देवतागणमध्यस्थो ह्यंतरिक्षादुपागमत् । विलपंतमुवाचेदमदृश्यः कमलासनः
ब्रह्मोवाच- त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति । जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः
एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः । ध्यानेन यांति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव
नैषा प्रिया तव समानतया विपन्ना जालंधरेण रचितां जहि देव मायाम् । सा पार्वती कमलकोशगता हि शंभो युद्धस्व वैरिनिवहं जहि पाहि चास्मान्
श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः । ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम्
तया जघान समरे दैत्यकोटिशतत्रयम् । ततो वृषभमारुह्य क्रोधेन महता नृप
धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान् । अथ मायापरित्यक्तं शर्वमालोक्य सिंधुजः
सुरेशमोहनं मायाजालमत्यद्भुतं नृप । अन्यदाविश्चकाराशु भृशं मायामहाबलम्
जालंधरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषांकम् । अथांतराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमंडिताम् 6.18.
देवतायतनै रम्यैर्नानापुष्पसमाकुलैः । मंडितां नृप भूमिं च चकारोदधिनंदनः । नृत्यंति यत्राप्सरसो मेनकाद्या मनोहरा
विस्मृत्य शंभुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः । वादित्रगीतैर्भुवि मोहितो भृशं दैत्येंद्रमायामय तांडवेन सः
विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह तांडवेन । गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम्
जंतून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः । क्व च ता देवताः सर्वाः क्व नंदिप्रमुखा गणाः
अपि त्वं माननीयोऽसि मोहितो दैत्यमायया । किमद्य शंभो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च
वधाय चास्यैव कृतं महेश जालंधरं संहरते न चाजौ । इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम्
आरुह्य वृषभं शीघ्रमाजगाम महारणम् । तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः
रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरः । हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम्
रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा । रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप
शुंभादयस्तदा दैत्या राहुप्रभृतयश्च ये । रुद्रं निरीक्ष्य संत्रस्ताः पातालं विविशुर्भयात्
सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे । शुंभादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान्
तदा जालंधरः संख्ये एको गिरिरिवस्थितः । परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन्
ततो जालंधरः प्राह महादेवं प्रहस्य च । रूपं संहर येन त्वं दहसे सचराचरम्
शस्त्रेण कुरु संग्रामं त्यक्त्वा योगबलं निजम् । इति जालंधरवचः श्रुत्वोवाच ततः शिवः
वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा । ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना
अपि ब्रह्मांडमखिलं मद्रूपस्यास्य दानव । तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः
नारद उवाच- इति शंभोः प्रसादं च मत्वा संसारनिस्पृहः । जालंधरो हराद्वव्रे मुक्तिं सायुज्यतां पराम्
श्रीमहादेव उवाच-। दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव । वृंदा मनोहरं रम्यमिहस्थं कालमश्नुते