गणान्विजित्य समरे रुरुधुर्दानवाः शिवम् । वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा
ततः पिनाकमाकृष्य वृषभोपरि भैरवः । जघान बाणनिवहैर्दानवान्समरांगणे । तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली
केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनि । बाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः
शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणे । गजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम्
बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम् । अथ मायामयीं गौरीं विदधे सिंधुनंदनः
सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम् । जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः
गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम् । इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया
रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह । पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात्
हृता तव प्रिया देव पार्वती सिंधुसूनुना । श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः
जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाः । ततो वृषभमारुह्य जया चालिंग्य शंकरम्
प्राह प्रयामि पार्वत्या न जीवामि विना हर । चंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम्
अवारोहत सा माया मायाष्वक्तो रणं ययौ । ततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः
दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप । एतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः
मायामृडानीं स्वरथे निधायार्णवजः शिवम् । जालंधरजये तद्वदासीद्वादित्रनिस्वनः
चचाल वसुधा येन प्रतिनेदुर्महीधराः । हरस्य दर्शयामास पार्वतीं सिंधुनंदनः
रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम् । वियोगविधुरां दीनां तन्वीमातुरलोचनाम्
हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनः । प्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम्
गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया । विललाप ततः शंभुर्दैत्यमायाविमोहितः
मोहो मे दानवैः कांते हृतासि त्वां कथं प्रिये । शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः
जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा । सर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः
ईश्वरोऽपि वराकस्त्वं संजातोंबिकया विना । मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम्
रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात् । इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम्
सैन्यं संप्रेषयामास शंकराभिमुखं किल । हरोऽपि वृषभेणाशु तत्सैन्यं समधावत
गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम् । यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः
तावच्छुंभासुरः शीघ्रं गृहीत्वा चांबरे स्थितः । शूलं मुमोच बलवान्हंतुं शुंभासुरं हरः
शुंभेन सा परित्यक्ता शूलोपरि पपात ह । रुदंती चारुसर्वांगी त्यक्ता शूलेन संयुता
पतिता शंकरस्याग्रे तथेत्युक्त्वा ममार च । मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः
हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः । क्षणं संज्ञामवाप्याथ रणभूमावुमापतिः । शशाप शुंभप्रमुखान्गौरी युष्मान्हनिष्यति
नारद उवाच- अथ शुंभादयो दैत्या रणे देव्या निपातिताः । महेश्वरस्य शापेन गते मंन्वतरे नृप
शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शंकरः । क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणांगणे