पाणिःप्रदानरहितोऽनृतभाषिवक्त्रं कर्णौ च पापश्रवणाय सदैव दक्षौ । दोषानिमान्मम हरे हर सेवकस्य यस्मान्नु नाथ शरणागतदोषहंता
संसारघोरजलधौ नृहरे कदाचित्त्वद्भक्तिनौरिह मया सुदृढा च लब्धा । तत्रापि दैववशगोऽहमहो दुरात्मा वर्तेत एव सततं ममदुःखकालः
संसारपारगमनाय लसत्पथोऽस्ति किं सर्वदुःखरहितः सदयः प्रसन्नः । अंधीकृतस्य मम मोहमहत्तमिस्रैर्दृष्टिस्त्वयीह न कदापि च याति विष्णो
पापात्मनोऽपि मम चित्तमिदं मुरारे नष्टं विनष्टजनकष्टविनष्टिकारि । यस्त्वां समस्तसुरवंदितपादपद्म स्वप्नेऽपि केशिमथनाद्य विभो समीक्षे
व्यास उवाच- इति तेन स्तुतो देवो भगवान्कमलापतिः । उवाच वाक्यं वाक्यज्ञः संसारार्णवतारकः
श्रीभगवानुवाच- भक्तिभिस्तव विप्रेंद्र तुष्टोऽहं नित्यमेव च । तस्मात्तवाचिरेणैव सर्वं भद्रं भविष्यति
पापिनोऽपि तवोद्धारो मया पूर्वं कृतो द्विज । अधुना मम भक्तोऽसि न विपत्तिर्भविष्यति
ब्राह्मण उवाच। कोऽहं तस्थौ पुरा विष्णो किं वा पापं मया कृतम् । पापिनोऽपि ममोद्धारः कथं पूर्वं त्वया कृतः
संसारेऽस्मिन्कथं जातो जनितोऽहं कथं त्वया । एतत्सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा
श्रीभगवानुवाच- अप्रकाश्यमिदं गुह्यं यद्यपि द्विजसत्तम । तथापि तव वात्सल्यान्निगदामि निशामय
पुरा त्वं ब्राह्मणश्रेष्ठ पक्षिवंशसमुद्भवः । भूतोऽसि भूमिभागेषु निजकर्मविपाकतः
क्षुधया तृषया वापि सततं व्याकुलो भवान् । बभ्राम भक्षयन्कीटान्निर्झरोष्णोदकं तथा
नानादुःखं सदा भुंजन्पक्षियोनौ समुद्भवः । चतुर्वर्षसहस्राणि स्थितोऽसि त्वं पुरा क्षितौ
एकदा कुलभद्राख्यो ब्राह्मणः सर्वतत्ववित् । पूजयामास मां भक्त्या नैवेद्याद्यैर्नदीतटे
समभ्यर्च्य स विप्रेंद्रो मम नैवेद्यतंदुलम् । ययौ तत्रैव निक्षिप्य भूय एव निजं गृहम्
ततो वृक्षात्समागत्य क्षुधिना पक्षिणा त्वया । मम नैवेद्यसंबंधि भक्षितं सर्वतंदुलम्
भुक्त्वैव सद्यो मुक्तोऽसि पातकैरतिदारुणैः । कदाचित्प्राप्तकालस्त्वं कालधर्मगतो द्विज
त्वामानेतुं मया दूताः प्रेषिताः सर्वथा निजाः । ततो रथे समारोप्य भवंतं नष्टकल्मषम्
सद्यो दूतगणाः सर्वे समायाताः परं पदम् । युगकोटिसहस्राणि स्थितोऽसि मम सन्निधौ
भुंजन्सुखानि सर्वाणि दुर्ल्लभानि सुरैरपि । ततो यातोऽसि विप्रेन्द्र विशुद्धे ब्राह्मणान्वये
तत्रापि मयि भक्तिस्ते जातातिसुदृढा पुनः । क्रियायोगेन मां नित्यं समाराध्य द्विजोत्तम
आयुषोंते मत्प्रसादान्मामकं पदमाप्स्यसि । यदा तुष्टोऽस्म्यहं विप्र सपापात्मापि मुक्तिभाक्
कदाचिद्यस्य रुष्टोस्मि पुण्यात्मापि च पापभाक् । तस्माद्ब्राह्मण भद्रं ते भक्तोऽसि मम सुव्रत
दास्यामि ते परं स्थानं यदलभ्यं सुरैरपि । ब्राह्मण उवाच- त्वत्प्रसादाच्छ्रुतं नाथ पूर्ववृत्तांतमात्मनः
इदानीं श्रोतुमिच्छामि यत्किञ्चिद्ब्रूहि तत्प्रभो । कस्य तुष्टोऽसि देवेन्द्र कस्य रुष्टोऽसि वा प्रभो
महत्या कृपया सर्वमेतन्मे वक्तुमर्हसि । श्रीभगवानुवाच- कर्मणा येनविप्रेन्द्र तुष्टिर्मे हृदि जायते
क्रोधश्च तत्समस्तं च कथयामि समासतः । यो दयावान्द्विजश्रेष्ठ सर्वभूतेषु सर्वदा
अहंकारविहीनश्च तस्य तुष्टोऽस्म्यहं सदा । कर्म कुर्यान्मदर्थं यो धर्मभक्तिसमन्वितः
ब्रूते मदर्थं यः शांतं तस्य तुष्टोऽस्म्यहं सदा । मिष्टं वस्तु समासाद्य दत्वा मे यश्च मानवः
मानापमाने सदृशस्तस्य तुष्टोऽस्म्यहं सदा । सर्वभूतशरीरस्थं यो मां जानाति मानवः