केशेष्वाकृष्य धुन्वाना नग्नमालिंग्य भार्गवम् । योनौ दधार सा कृत्या हसंती जयनंदन
भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः । संदधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता
श्रीनारद उवाच- अथ जालंधरः प्राह रक्षात्मानमितः शिवम् । शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः
पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे । धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम्
इत्युक्त्वा सैन्यसंभारं न्यस्य शुंभासुरादिषु । भटैर्गुप्तं निशुंभाद्यैश्चतुरंगमनंतकम्
शुंभो निशुंभः फेंकारो फेरुंडो धूम्रलोचनः । केतुर्बिडालजंघश्च राहुर्दुर्वारणो यमः
कालासुरोऽथ लवणो भूमिरेतोंधकासुरः । रक्तवीर्यादयश्चंडी चामुंडी दैत्यपुंगवाः
सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान् । रुरुधुः समरे राजन्वीरभद्रादयो गणाः
ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम् । पतंति प्रथमा यत्र दैत्याश्चापि क्षतातुराः
अथ शुंभादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे । हताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप
गणान्विजित्य समरे रुरुधुर्दानवाः शिवम् । वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा
ततः पिनाकमाकृष्य वृषभोपरि भैरवः । जघान बाणनिवहैर्दानवान्समरांगणे । तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली
केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनि । बाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः
शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणे । गजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम्
बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम् । अथ मायामयीं गौरीं विदधे सिंधुनंदनः
सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम् । जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः
गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम् । इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया
रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह । पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात्
हृता तव प्रिया देव पार्वती सिंधुसूनुना । श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः
जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाः । ततो वृषभमारुह्य जया चालिंग्य शंकरम्
प्राह प्रयामि पार्वत्या न जीवामि विना हर । चंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम्
अवारोहत सा माया मायाष्वक्तो रणं ययौ । ततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः
दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप । एतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः
मायामृडानीं स्वरथे निधायार्णवजः शिवम् । जालंधरजये तद्वदासीद्वादित्रनिस्वनः
चचाल वसुधा येन प्रतिनेदुर्महीधराः । हरस्य दर्शयामास पार्वतीं सिंधुनंदनः
रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम् । वियोगविधुरां दीनां तन्वीमातुरलोचनाम्
हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनः । प्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम्
गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया । विललाप ततः शंभुर्दैत्यमायाविमोहितः
मोहो मे दानवैः कांते हृतासि त्वां कथं प्रिये । शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः
जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा । सर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः