पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च । ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः
हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी । अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम्
सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् । दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम्
ममज्जापुंखमर्यादं ललाटे शंकरस्य च । भाले शशांकवच्छंभोः स रराज महाप्रभः
यथादित्यो हि घर्मांते संध्याकालेंबुदागमे । अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम्
यस्य वेगे तु पवनः फले यस्याग्निभास्करौ । कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता
हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् । तेन बाणप्रहारेण रुधिरौघपरिप्लुतः
पपात शरभिन्नांगो वज्राहत इवाचलः । तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा
सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् । रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः
यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः । तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः
चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप । दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे
ततः काव्यं स सस्मार मनसा परमं गुरुम् । स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति
स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम् । किं करोमि महाराज तव कार्यं महाबल
नारद उवाच- इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् । नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा
राजोवाच- जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः । इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत्
पंचविंशत्सहस्राणि योजनानां प्रमाणतः । दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव
उच्छ्रये पंचनवतियोजनानां महीं चिताम् । योधवाहनदेहाद्यैरिव पूर्णां धरां ततः
मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः । यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम्
तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप । व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा
आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः । किमेतदिह संजातं मृतान्सृजति कुत्रचित्
ददर्श चिंतयन्काव्य इति तस्मिन्रणे भवः । जीवयंतं रणे दैत्यान्धावंतं वेगवत्तरम्
ततः क्रुद्धो महादेवः शुक्रं हंतुं मनो दधे । त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः
ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम् । ब्रह्महत्या मयि हते तव रुद्र भविष्यति
इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शंकरः । स्मृत्वा तत्पूर्ववृत्तांतं यल्लग्नं ब्रह्मणः शिरः
ब्राह्मणो न हि हंतव्यो हरन्प्राणानपि प्रियान् । अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया
तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम् । एवमुक्तवतः शंभोस्तृतीयनयनाद्द्रुतम्
कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा । स्थूललंबस्तनी योनी दंष्ट्रालोचनभीषणा
आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः । कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम्
यावज्जालंधरं हन्मि तावदेनं भगे वह । हते जालंधरे दैत्ये पश्चान्निस्तीर्य मोचय
हरेणोक्तेति सा कृत्या भार्गवं समधावत । पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः