अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः । प्रहत्य मुष्टिना चंडं पातयामास भूतले
चंडीशशस्त्राभिहतो रोमकंठो महासुरः । चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत्
पपात सहसा भूमौ ययौ तं भीषणेक्षणः । उरुनेत्रेण समरे हतो लंबोदरः शरैः 6.17.
दंतेनोरसि तं हत्वा पातयामास भूतले । ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात्
जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते । गणेश्वरः पट्टिशेन जघानोरसि दानवम्
तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान् । अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम्
नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः । जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा
तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः । रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः
शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् । नवशीर्षं रणे हत्वा उरुनेत्रमधावत
स्कंदः स्वशक्तिघातेन पातयामास तं नृप । पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः
पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च । ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः
हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी । अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम्
सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् । दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम्
ममज्जापुंखमर्यादं ललाटे शंकरस्य च । भाले शशांकवच्छंभोः स रराज महाप्रभः
यथादित्यो हि घर्मांते संध्याकालेंबुदागमे । अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम्
यस्य वेगे तु पवनः फले यस्याग्निभास्करौ । कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता
हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् । तेन बाणप्रहारेण रुधिरौघपरिप्लुतः
पपात शरभिन्नांगो वज्राहत इवाचलः । तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा
सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् । रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः
यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः । तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः
चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप । दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे
ततः काव्यं स सस्मार मनसा परमं गुरुम् । स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति
स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम् । किं करोमि महाराज तव कार्यं महाबल
नारद उवाच- इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् । नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा
राजोवाच- जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः । इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत्
पंचविंशत्सहस्राणि योजनानां प्रमाणतः । दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव
उच्छ्रये पंचनवतियोजनानां महीं चिताम् । योधवाहनदेहाद्यैरिव पूर्णां धरां ततः
मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः । यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम्
तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप । व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा
आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः । किमेतदिह संजातं मृतान्सृजति कुत्रचित्