सर्वं चक्रे निशुंभस्य स रथाद्यसिना पृथक् । पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत्
निशुंभोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः । शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत्
कोलाहलो रणे धावन्निशुंभं विरथो बली । गतः स सरथं चक्रे विरथं भुजबंधनात्
केतुपुच्छं गृहीत्वा च भ्रामयामास चांबरे । कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात्
तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना । कालश्चूर्णितसर्वांगः केतुना प्राद्रवद्भयात्
शैलोदरस्तथा स्कंदं जघान गदयोरसि । षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत्
शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः । जगर्ज तत्र वैचित्र्यं यथा क्रौंचे विदारिते
माल्यवानथ बाणौघैर्जंभमभ्यर्दयद्रणे । जंभोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ
महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम् । लीलयैव च खे नीत्वा व्यश्वं चंडमपातयत्
व्यश्वं रथं विलोक्याथ ततश्चंडोऽग्रहीद्गजम् । आपतंतं महापार्श्वं चंडस्तं गदयाहनत्
अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः । प्रहत्य मुष्टिना चंडं पातयामास भूतले
चंडीशशस्त्राभिहतो रोमकंठो महासुरः । चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत्
पपात सहसा भूमौ ययौ तं भीषणेक्षणः । उरुनेत्रेण समरे हतो लंबोदरः शरैः 6.17.
दंतेनोरसि तं हत्वा पातयामास भूतले । ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात्
जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते । गणेश्वरः पट्टिशेन जघानोरसि दानवम्
तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान् । अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम्
नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः । जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा
तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः । रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः
शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् । नवशीर्षं रणे हत्वा उरुनेत्रमधावत
स्कंदः स्वशक्तिघातेन पातयामास तं नृप । पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः
पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च । ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः
हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी । अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम्
सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् । दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम्
ममज्जापुंखमर्यादं ललाटे शंकरस्य च । भाले शशांकवच्छंभोः स रराज महाप्रभः
यथादित्यो हि घर्मांते संध्याकालेंबुदागमे । अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम्
यस्य वेगे तु पवनः फले यस्याग्निभास्करौ । कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता
हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् । तेन बाणप्रहारेण रुधिरौघपरिप्लुतः
पपात शरभिन्नांगो वज्राहत इवाचलः । तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा
सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् । रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः
यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः । तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः