मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे । आयांतं रुरुधुः सिंधुसूनुं शंभुगणा युधि
ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा । रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम्
विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः । पुनर्जालंधरस्यांगं शंभुना कीलितं शरैः
रुधिरं बहु सुस्राव जालंधरशरीरतः । तेनाशु रुधिरौघेण प्लाविता सकला मही
ततो देवा भयं जग्मुर्दानवाश्च चकंपिरे । त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः
नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च । अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि
इदानीं तत्करिष्यामि येन गच्छसि संक्षयम् । इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत्
शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम् । शिवः सहस्रकोटीभिः पूरितांगो रणे बभौ
विहंगमैर्यथाकाशं वृक्षैरिव महागिरिः । दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम्
वीरभद्रस्तथा कोपाज्जालंधरमधावत । अपीडयदमेयात्मा समुद्रतनयं बली
जालंधरोऽथ संक्रुद्धो विध्यन्बाणैः सहस्रशः । धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः
चकार वीरभद्रस्य सिंधुसूनुः प्रतापवान् । वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम्
तथैव गदया सोऽपि तं हत्वापातयद्भुवि । गदाप्रहारपतितमालोक्यातिविमूर्च्छितम्
मणिभद्रोऽथ समरे जालंधरमधावत । अतिक्रुद्धं तमायांतं दृष्ट्वा दैत्यो महारणे
शरैर्व्यस्तोपकरणं स चकार नदीसुतः । अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन्
वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान् । जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम्
तदंगे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च । जघान मुष्टिपातेन वीरभद्रो नदीसुतम्
मणिभद्रश्चरणयोर्धृत्वा सागरनंदनम् । स्यंदनाद्भ्रामयामास तदद्भुतमिवाभवत्
मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः । हत्वा चरणघातेन मणिभद्रमपातयत्
जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना । अथागतः परिवृतो गणैर्वै नंदिकेश्वरः
शुंभस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः । द्वंद्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम्
शुंभः शिलादजं राहुर्महाकालं रणे ययौ । कोलाहलं निशुंभोऽथ केतुः कालमधावत
शैलोदरो गुहं जंभो माल्यवंतं महाबलः । महापार्श्वो ययौ चंडं चंडीशो रोमकंटकम्
विकटास्योऽथ वै भृंगिमुरुनेत्रो विनायकम् । एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः
अथ शुंभायुधैर्बाणैः प्रहतश्च शिलादजः । चूर्णीचकाराद्रिशृंगैः कपितुंडो महत्तरैः
शुंभस्तेनार्दितः शक्त्या शिलादं च जघान तम् । महाकालो जघानाथ तं राहुं रणमूर्द्धनि
शक्त्याथ तस्य हतवान्स्यंदनं स महाद्रिणा । कोलाहलो हतः शक्त्या निशुंभेन प्रतापवान्
शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह । विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे
कोलाहलो सुरेंद्रेण सहस्रफणिना हतः । तं हत्वा चातिवेगेन रथं चान्यमुपागतः
फणिचक्रहतः संख्ये क्षणान्मूर्च्छां विहाय च । स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी