इत्युक्त्वा निजमास्थाय रूपं सा प्राह तं पुनः । अनेन बत पापेन हतस्त्वं हि पिनाकिना
इति ज्ञात्वा च सा प्राप्ता तत्र गत्वाब्रवीदुमाम् । देवि जालंधरो ह्येष न शंभुस्तव वल्लभः
ततो भयार्ता हरवल्लभाभूद्द्रुतं विवेशाथ सरोजमध्ये । सख्यो भ्रमर्यः कमलेषु जाता भयेन जालंधरजेन राजन्
अत्रांतरे वनगतामदृष्ट्वा तां नृपांगनाम् । भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः
ततः शुंभेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः । आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम्
श्रुत्वा वृंदां हृतां त्रस्तो रुद्रात्त्यक्त्वाथ संगरम् । शुंभेन प्रेषितौ चंडमुंडौ जालंधरं प्रति
मानसोत्तरमागत्य दानवौ वेगवत्तरौ । हररूपधरं दैत्यं ऊचतुर्विटपान्तरे
किं तया नृपशार्दूल विदेशगतया श्रिया । अरयो यां न पश्यंति बंधुभिर्या न भुज्यते
जितः शुंभो हतं सैन्यं देव रुद्रेण ते रणे । एह्येहि कुरु संग्रामं न त्वं प्राप्नोषि पार्वतीम्
पंचाननस्य महिषीं कथं प्राप्नोति जंबुकः । अंधकारः कथं राजन्प्राप्नोति सवितुः प्रभाम्
तव जालंधरात्पीठाद्धृता राज्ञी मुरारिणा । इति संश्रूयते वार्ता तस्मात्त्वं कुरु संगरम्
रणे शर्वं विजित्याशु भव सर्वेश्वरेश्वरः । अथवा शिवनाराचैः खंडितो यासि तत्पदम्
इति जालंधरः श्रुत्वा भाषितं चंडमुंडयोः । निःससार गिरेस्तस्मात्सक्रोधं रक्तलोचनः
चंडमुंडौ समाश्वास्य त्यक्त्वा रूपं हरस्य च । गच्छञ्जालंधरो मार्गे दुर्वारणमुवाच ह
पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम् । मायामाश्रित्य सा राज्ञी वृंदा नीतात्मनः पदम्
गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान् । नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद्बुधः
जामातरं गृहे नैव स्थापयेत्सर्वथा नरः । धनदारादिकं सर्वं स गृह्णाति शनैः शनैः
दुर्वारण उवाच- राजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते । त्वं हर्तुमागतो गौरीं हरिणा ते हृता वधूः । तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिंतयत्
जालंधर उवाच- किं प्रयामि हरं जेतुमथवा हरिमुल्बणम् । कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यताम्
दुर्वारण उवाच- यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति । हनिष्यंति रणे शूरा यातुं रुद्रो न दास्यति
तस्मात्पशुपतिं जित्वा कृत्वा त्वं वश्यमात्मनः । पश्चात्प्रयाहि गोविंदं यदि जानासि तत्पदम्
अधुना सत्वरं वीर याहि दैत्यान्महाबलान् । रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते
देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा । ययौ जालंधरो योद्धुं सह रुद्रेण योगिना
नारद उवाच- अथ जालंधरोऽपश्यत्कबंधचयभीषणम् । रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम्
तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः । रणे विलोकयामास वृषस्थं पार्वतीपतिम्
घोराहिभोगेनविभूषितांगं जटाकलापे शशिभूषणांकितम् । नेत्राग्निकीलोपरिशोभितांगं विना रणं संप्रददर्श सिंधुजः
शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा । संरुष्टः प्राह तं शुंभं तापसो न हतस्त्वया
प्राह जालंधरं शुंभस्तपस्तेन महत्कृतम् । हंतुं न शक्यतेऽस्माभिर्हरः संग्रामदुर्जयः
इतिशुंभोक्तमाकर्ण्यसिंधुजःक्रोधमूर्च्छितः । हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम्
गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ । बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तंभान्तथा बहून्