मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके । इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी
तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः । वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः
विहाय दुःखमकरोद्गात्रक्षालनमंबुना । तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः
शोषयामास देहं स्वं विष्णुसंगेन दूषितम् । तपश्चचारसात्युग्रं निराहारा सखीसमम्
गंधर्वलोकतो वृंदामथागत्याप्सरोगणः । प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम्
गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं। नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् । कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं। भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम्
श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य । स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या । आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य। तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव
इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान् । तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च
योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान् । विषयेभ्यः समाहृत्य मनः प्राप ततः परम्
दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः । तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः
शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् । निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम्
दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् । कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः
यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता । आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः
देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे । शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः । परिजननिवहोवापशोभां शुभस्य
युधिष्ठिर उवाच। कथं जालंधरो गौरीं हररूपधरो मुने । दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात्
नारद उवाच- यदा मायाशिवस्तत्र प्रार्थयद्गिरिजां प्रति । ततः सा चुक्षुभे राजन्किंचिन्नोवाच तं प्रति
अनातुरस्य देवस्य प्राप्तस्य तपसा मया । न युक्तमिति निश्चित्य पार्वती नाह तं नृप
सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः । निर्गता तत उत्थाय ददर्शाकाशवाहिनीम्
गंगां वासोचितां मत्वा भवानी तपसे ययौ । पुरापि तपसा लब्धो मयेशः सांप्रतं तथा
इत्यव्रजच्चिंतयती सखीभिः सहिता ततः । पुरः क्षीरनिभां राजन्पार्वती गगनात्परम्
मंदाकिनीं ददर्शाथ पतंतीं मानसोत्तरे । हारमालामिवायांतीं विविक्तां गगनस्रजः
मंदाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा । श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता
दृष्ट्वा मुमोद तां गंगां स्नात्वा चालिसमन्विता । संपूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे
परस्परमथालोक्य गौरी प्राह सखीं जयाम् । त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा
जानीहि तत्वं किं शंभुर्यदि वान्यो भविष्यति । यद्यसौ त्वां समालिंग्य कुरुते चुंबनादिकम्
तदा मायां समास्थाय जानीह्यसुरमागतम् । यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम्
असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम् । इत्यादिष्टा जया देव्या गता गंगाधरांतिकम्
तामायांतीं स दृष्ट्वा च भृशं मन्मथपीडितः । चकारालिंगनं तस्या गौरीरूपेण भावयन्
ततो जालंधरः सद्यो वीर्यं स्वं प्रमुमोचह । अल्पेंद्रियश्च संजातो वेगतः कुरुनंदन
तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि । अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी