स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम् । न गृहे न सुखं राज्ये मम जातं वने सखि
स्मरदूतिरुवाच- शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः । दृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः
तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगना । दृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता
एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिः । त्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः
पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननः । विहंगेशसमाः केशा लंबंते रुधिरारुणाः
तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत् । नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा
प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत । भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम्
एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौ । रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम्
सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव । स्मरदूती तरोर्मूले छिन्नाशोकलता यथा
ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः । तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव
तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि । तव भर्ता हतः संख्ये हरेणेति श्रुतं मया
मामासाद्याद्य भर्तारं चिरंजीवाकुतोभया । पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम् । शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत्
नारदउवाच- नारायणस्तदा देवो जटावल्कलधार्यथ । द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान्
तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा । तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ
भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ । वने घोरे प्रविष्टासि कथं दुष्टनिषेविते
एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः । मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम्
रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः । सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः
भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः । अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम्
करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने । तस्मादिमां विमुंचाशु सुखप्रासाददेवताम्
इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् । समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात्
इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः । पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः
अथोवाच प्रमुग्धा सा मायया जगदीशितुः । कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता
शारीरं मानसं दुःखं सतापं तपसां निधे । त्वया मधुरया वाचा हृतं राक्षसनाशनात्
तवाश्रमे तपः सौम्य करिष्यामि तपोधन
तापस उवाच- भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः । विहाय भोगानखिलान्वनं घोरमुपागतः
अनेन बटुनासार्धं मम शिष्येण कामगाः । बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः
त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे । एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः
इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः । वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप
वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ । स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी
अत्रांतरे दुराचारः कोपि पापाकृतिर्वने । जालं प्रसारयामास तद्यदा जीवपूरितम्