ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ । आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम्
तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः । सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः
अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिः । तस्या हृदयसंतापं चकार मधुसूदनः
एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागता । चामरांश्चालयामास दिव्यस्त्रीकरचालितान्
प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुः । चंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम्
तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगना । स्वप्नं ददर्श भयदं वैधव्यभयसूचकम्
जालंधरशिरः शुष्कं मर्दितं पांडुभस्मना । गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम्
मुक्तकेशी करालास्या कृष्णवर्णारुणांबरा । चखाद काली रक्तास्या हस्ते विधृतखर्परा
ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम् । दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना
ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम् । गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः
ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम् । निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत् । तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः
द्विजा ऊचुः - देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम् । देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम्
धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च । ब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम्
अभिषिक्तापि सा वृंदा ज्वरेण परितप्यते । विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा
तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगला । ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा
न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ । रथमश्वतरीयुक्तं स्मरदूतीसखीवहम्
समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम् । नानावृक्षसमायुक्तं नानापक्षिगणान्वितम्
पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम् । मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित्
वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनः । कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः
सा तत्र न सुखं लेभे विवेशान्यतमं वनम् । सखीरथसमायुक्ता विष्णुमायाविमोहिता
ततो विलोकयामास विपिनं तरुसंकुलम् । उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् 6.14.
सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम् । द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम्
वनं विलोक्य सा भीमं चकिता चपलेक्षणा । स्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम् । रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति
स्मरदूतिरुवाच- नाहं जानामि दिग्भागं न यामि क्व रथं सखि । श्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते
प्रेरितो दैवकेनापि स्यंदनो यातु यत्र च । अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा
इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत् । स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः
तत्र सिद्धाश्च दृश्यंते काननं च भयावहम् । न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि
न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः । तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः
अश्वतर्यो न हेषंते न च शब्दश्च नेमिजः । न चलंति पताकास्ता घंटिका न क्वणंति च
न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताः । विलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति