तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम् । यया संमोहितं सर्वं जगत्स्थावरजंगमम् । सैव संमोहिता तेन न जाने दुःखमात्मनः
युधिष्ठिर उवाच- इति मायामहेशेन मोहिता गिरिजा यदा । अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि
नारद उवाच- क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः । अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते
दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः । उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च
किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत् । स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो
विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः । सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते
हतो जालंधरो वीरो हरो वा तेन मोहितः । दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम्
जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि । कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान्
कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः । अथ त्वं बाणसंचारं गत्वापि हितविग्रहः
संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि । दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन्
गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः । अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत्
एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम् । निश्चक्राम खमाविश्य जगामाद्भुतवेगवान्
तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम् । दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल
तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम् । शैलं तुंगतरं दुर्गमगम्यं मरुतामपि
विलोकयन्न ददृशे गौरीस्थानं पतंगराट् । तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल
गत्वा समीपे ददृशे मायापशुपतिं ततः । गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः
ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः । हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम्
कथयामास वृत्तांतं पुरतः कैटभद्विषः । देव जालंधरेणायं हरो देवो विडंबितः
उमा प्रतारिता तेन पापेन छद्मरूपिणा । सुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः
मायायुद्धं तु देवेश कुरु जालंधरं प्रति । तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे
प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैः । सा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि
नेदानीं मानुषे लोके न पातालेषु तत्समा । भार्या तेन समा वेश्या नारीणां का कथा हरे
यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत् । तव श्यालकपत्नी च हर त्वं तां रम प्रियाम् । शंकरस्योपकारं च कुरु चैवात्मनः सुखम्
नारद उवाच- श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः । सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम्
श्रियंपतार्य्य संछाद्य मंचके पीतवाससा । निर्गतोऽन्येन रूपेण योगि मायाबलेन च
वृंदारिकानुरागेण मोहितो मधुसूदनः । दृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर
शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम् । जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि
किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन । सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम्
श्रीभगवानुवाच- जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात् । पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम्
एहि यामो वयं बंधो कांतारं दुरतिक्रमम् । वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ