दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः । चंडी भृंगी किरीटिश्च महाकालश्च शृंखली
चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे । विनायकस्य स्कंदस्य शिरसी भ्रमता मया
दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत् । तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः
पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती । तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना
त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः । तदा त्वया कथं वीर तारकाख्यो निपातितः
नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि । स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया
न भोगा वत्स ते भुक्ता संसारस्यापि येभवन् । तात हेरंब विघ्नेश लंबोदर गजानन
रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः । वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः
एवं विलपती गौरी शिवं प्राह सुदुःखितम् । साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु
वृषभः क्व गतो देव हतो जालंधरेण वै । शरजर्जरदेहस्य किं करोमि प्रियं तव
ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः । दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये
अधुना तेंगसंगेन देवि मां त्रातुमर्हसि । शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम् । प्रत्युवाचांबिका देवं बभाषे नोचितं वचः
महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे । श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति
कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम् । म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम्
भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः । उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः
पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियः । तथैव रौरवे घोरे पतिष्यंति न संशयः
गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने । सांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि
सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः । स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम्
उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरः । त्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज
इति मायामहेशस्य वचः श्रुत्वांबिका ततः । दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता 6.13.
तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम् । यया संमोहितं सर्वं जगत्स्थावरजंगमम् । सैव संमोहिता तेन न जाने दुःखमात्मनः
युधिष्ठिर उवाच- इति मायामहेशेन मोहिता गिरिजा यदा । अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि
नारद उवाच- क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः । अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते
दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः । उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च
किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत् । स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो
विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः । सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते
हतो जालंधरो वीरो हरो वा तेन मोहितः । दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम्
जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि । कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान्
कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः । अथ त्वं बाणसंचारं गत्वापि हितविग्रहः
संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि । दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन्