सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयम् । एकदा गुडकंडोलं तेनैव खलु वर्त्मना
गृहीत्वा पथिकः कश्चित्काकीमंडलमागतः । ततोऽसौ सहसा दस्युर्निर्भयः परहिंसकः
जहार गुडकंडोलमध्वनीनस्य तस्य च । अथ ते दस्यवश्चक्रुर्गुडकंडोल भंजनम्
उर्वीशुश्चापतद्भागे शकटं गुडनिर्मितम् । उर्वीशुः शकटं गौडं समासाद्य द्विजोत्तम
मनसा चिंतयामास वचःस्मरणपूर्वकम् । अनो मया पुरा दत्तं स्वयमेव मुरारये
तस्मादनो न मे ग्राह्यं कदाचिदिह जन्मनि । विचिन्त्येति हृदा दातुं तदनो गुडनिर्मितम्
दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे । तां भक्तिं तस्य विज्ञाय महापातकिनो द्विज
जहार सकलं पापं सद्यः प्रीतो जनार्दनः । तस्मिन्नेव दिने विप्र प्रविश्य च महावनम्
हतः पौरजनैः सर्वैरथ क्रुद्धैः स उर्विशुः । भगवानथ तं नेतुं विमानं स्वर्णनिर्मितम्
दूतांश्च प्रेषयामास नानाभरणभूषितान् । अथ ते भगवद्दूतास्तमुर्वीशुं गतैनसम्
समारोप्य विमाने तं सद्यो जग्मुः पुरं हरेः । ततौऽसौ हरिसान्निध्यं प्राप्य पुण्यात्मनां वरः
पुनर्मन्वंतरशतं स्थित्वा केशवसन्निधिम् । परमं ज्ञानमासाद्य स विवेश तनुं हरेः
व्यास उवाच- येन केनाप्युपायेन हरिभक्तिकरो नरः । संसारजलधेः पारं राजहंस इव व्रजन्
क्षणमेव हरेर्भक्तिर्वर्तते यस्य चेतसि । तत्पदं परमं याति स पापात्मापि गच्छति
एकमप्युत्तमं वस्तु दत्वाऽसौ तन्मुरारये । स्वयमेव हि भोक्तव्यं पश्चात्पापोपशांतये
यद्वस्तु हरये दत्तं तच्च दद्याद्दिवजातये । किंचिच्छेषं न भोक्तव्यं तस्यावश्यं स्वयं बुधैः
वस्तूनि ब्राह्मणश्रेष्ठमिष्टानि यानि कानि च । अदत्वा विष्णवे तानि न भोक्तव्यानि वैष्णवैः
विष्णुनैवेद्यमाहात्म्यं सर्वपापप्रणाशनम् । सेतिहासं पुनर्वच्मि शृणु विप्र समाहितः
आसीत्सर्वजनिर्नाम ब्राह्मणः शुद्धवंशजः । शांतो दांतो दयायुक्तो गुरुब्राह्मणपूजकः
हरेः पूजापरश्चैव हरिस्मरणतत्परः । प्रपन्नक्लेशविध्वंसी सत्यवादी जितेन्द्रियः ५० 7.19.
प्रातःस्नायी निजाचारग्राही हिंसा विवर्जितः । एकादशीव्रतरतो ज्ञातिपूजापरायणः
कदाचित्स द्विजश्रेष्ठः स्वप्नेऽपश्यच्च केशवम् । श्यामं विरजपद्माक्षं स्मेरास्यं पीतवाससम्
स्वर्णकुण्डलमञ्जीरकिरीटोज्ज्वलविग्रहम् । कौस्तुभोद्भासितोरस्कं वनमालाविभूषितम्
चतुर्बाहुं शङ्खचक्रगदापद्मधरं प्रभुम् । समस्तैर्लक्षणैर्युक्तं स्वर्णयज्ञोपवीतिनम्
संप्राप्य दर्शनं स्वप्ने स विप्रो जगतीपतेः । कृताञ्जलिस्तमस्तौषीद्रोमांचिततनुर्मुदा
तुभ्यं नमोऽस्तु जगतः सकलस्यभर्त्त्रे सल्लोकशोकभयरोगविनाशनाय । नारायणाय कमलाहृदयप्रियाय धर्मार्थकामपरमामृतदाय तुभ्यम्
पापानि चैव सकलानि मया कृतानि मत्तेन मोहवशगेन सदा मुरारे । तस्माद्बिभेमि जगदंबुनिधेर्गभीरान्मामुद्धरस्व निजभक्तितरीं प्रदाय
जानामि यद्यपि हरे दुरितं मनुष्यो व्यामोहमाशुचलभे भुवि कैटभारे । पापं तथापि च मुदा सततं करोमि तस्मान्न कोऽप्यहमिवास्ति जनो विमूढः
पुण्यद्रुमः सुखफलं सहसैव धत्ते किं वेद्मि नेति नृहरे कृतपातकोऽहम् । पुष्पद्रुमार्पणविधौ न ममास्ति वित्तं नाथ प्रसीद भगवन्किमहं करोमि
त्वत्पादपद्मयुगलं परमामृतस्य स्थानं विहाय मम चित्तमधुव्रतोऽयम् । नारीमुखं व्रजति देवमृतिप्रदं यच्छ्लेष्मप्रकीर्णमनिशं कमलभ्रमेण