गजोपरि गजं हत्वा पातयामास भूतले । रक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात्
शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे । पतंति दानवाः शूरा गतप्राणा महीतले
रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिः । पतंति दानवाः शूरा पूरिता वसुधा नृप
नारद उवाच- एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम् । भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः
तेजोऽन्यदेवनक्षत्र शशांक सकलादिषु । उद्धाटितजगत्कोशमन्यदेवरवेर्महः
भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृप । न दृष्टा सा मया गौरी यां मामाहाति नारदः
सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम् । तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना
चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजः । शुंभं चंडजये वीर मम तुल्यपराक्रम
धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसि । तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च
अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम् । इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम्
वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम् । दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः
अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव । मानसोत्तरशैलस्य हररूपं दधार सः
धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथा । अथारुरुहतुः शैलं छद्मशंकरनंदिनौ
यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप । तमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः
रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत् । सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः
शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताः । किं जातं तव देवेश केन त्वं संगरे जितः
सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि । इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक्
उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि च । गणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च
हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत् । तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः
अत्राब्रवीज्जयां नंदी त्वमेनं परिपालय । मणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान्
दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः । चंडी भृंगी किरीटिश्च महाकालश्च शृंखली
चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे । विनायकस्य स्कंदस्य शिरसी भ्रमता मया
दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत् । तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः
पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती । तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना
त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः । तदा त्वया कथं वीर तारकाख्यो निपातितः
नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि । स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया
न भोगा वत्स ते भुक्ता संसारस्यापि येभवन् । तात हेरंब विघ्नेश लंबोदर गजानन
रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः । वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः
एवं विलपती गौरी शिवं प्राह सुदुःखितम् । साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु
वृषभः क्व गतो देव हतो जालंधरेण वै । शरजर्जरदेहस्य किं करोमि प्रियं तव