सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः । अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत्
वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत् । बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम्
कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ । स्कंधे च किंकिणीजालं चरणे नूपुरं महत्
पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे । कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता
पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका । न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ
पार्वत्या भूषितः सोऽथ निजया घंटमालया । कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे । आगंतव्यमरीन्जित्वा शंभुना सह संगरे
इति श्रुत्वा वचो देव्या हरो वृषमथारुहत् । धृत्वायुधसहस्रं तु निजालंकारभूषितः । रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम्
ईश्वर उवाच- त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा । भामिनी दुरभिप्राया दानवा हि समागताः
तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने । इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम्
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः । वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः
वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव । मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा
दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः । तुंगादुत्तीर्य शैलेंद्राद्रणं प्राप्तो गणैः सह
दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम् । ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः
तयोरभून्मिथो राजन्संप्रमर्दोऽथ दारुणः । ततो नंदी महाकालः कालस्कंदौ महाबलः
माल्यवान्पुष्पदंतश्च वृषली स्वर्णदंतिकः । चंडीशो मदनश्चंडः कूष्मांडो गुप्तलोमकः
ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसंकटम् । शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः
गणदानवयोधानां संग्रामोऽभूद्भयावहः । ततो गणानां विद्राव्य सैन्यं ते च महाबलाः
रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम् । शूलैः कुंतैर्गदाभिश्च मुद्गरैः परिघैरपि
इंद्रियाणि यथात्मानं विषयैः पंचपंचभिः । जघानाथ रणे दैत्याञ्छंभुर्बाणैः सुदारुणैः । यथाशु माघः पापानि हंति स्नानेन तत्क्षणात्
नारद उवाच- ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे । आजगाम रथारूढो यत्र देवः सदाशिवः
सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत् । संप्रेषय रथं शीघ्रं सहस्रहययोजितम्
हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम् । वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह
नारद उवाच- इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः । गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम्
तं रुरोध तदायांतं वीरभद्रः शितैः शरैः । निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः
देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः । तथापि किं कपालानि तुलां यांति कलानिधेः
विव्याध मणिभद्रोऽपि शरैः सागरनंदनम् । पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः
एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि । त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम्
इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैः । पूरयामास संक्रुद्धो यथा पद्मं रविः करैः
मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत् । रथोपरि रथं वीर तुरगं तुरगोपरि