शरैः किरंतं दहनमसिना बर्बरोऽवधीत् । कूष्मांडो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना
पातालकेतुना हासो मुद्गरेण समाहतः । तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक्
शुंडायां मुष्टिघातेन हतः पातालकेतुना । आयुधैर्जर्जरं चक्रे भृंगीशं रोमकंटकः
भृंगीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ । सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत्
गणं गिलितवान्दैत्यो महाकायो महाननः । हाहाकारो महानासीद्गिलिते केतुना रणे
जृंभस्य निशितैर्बाणैश्छिन्नांगोऽथ विनायकः । शुंडादंडं परशुना तस्य चिच्छेद दंतिनः
जृंभासुरो जघानाथ शक्त्या लंबोदरोदरम् । मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम्
विनायकः प्रहारार्त्तो विललापाकुलो रणे । हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय
गणेशक्रंदितं श्रुत्वा भगवत्या तया तदा । समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा
हेरंबो वध्यते दैत्यैः स्कंदोऽपि विनिपातितः । शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि
सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः । अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत्
वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत् । बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम्
कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ । स्कंधे च किंकिणीजालं चरणे नूपुरं महत्
पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे । कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता
पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका । न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ
पार्वत्या भूषितः सोऽथ निजया घंटमालया । कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे । आगंतव्यमरीन्जित्वा शंभुना सह संगरे
इति श्रुत्वा वचो देव्या हरो वृषमथारुहत् । धृत्वायुधसहस्रं तु निजालंकारभूषितः । रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम्
ईश्वर उवाच- त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा । भामिनी दुरभिप्राया दानवा हि समागताः
तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने । इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम्
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः । वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः
वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव । मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा
दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः । तुंगादुत्तीर्य शैलेंद्राद्रणं प्राप्तो गणैः सह
दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम् । ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः
तयोरभून्मिथो राजन्संप्रमर्दोऽथ दारुणः । ततो नंदी महाकालः कालस्कंदौ महाबलः
माल्यवान्पुष्पदंतश्च वृषली स्वर्णदंतिकः । चंडीशो मदनश्चंडः कूष्मांडो गुप्तलोमकः
ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसंकटम् । शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः
गणदानवयोधानां संग्रामोऽभूद्भयावहः । ततो गणानां विद्राव्य सैन्यं ते च महाबलाः
रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम् । शूलैः कुंतैर्गदाभिश्च मुद्गरैः परिघैरपि
इंद्रियाणि यथात्मानं विषयैः पंचपंचभिः । जघानाथ रणे दैत्याञ्छंभुर्बाणैः सुदारुणैः । यथाशु माघः पापानि हंति स्नानेन तत्क्षणात्