कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम् । सोऽपि हेति व्यथां त्यक्त्वा माल्यवांश्च गणाग्रणीः
गिरिं गृहीत्वा तेनाजौ कोलाहलमथाहनत् । निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः
त्रिशीर्षो नवहस्तश्च नवपादोऽतिपिंगलः । स ज्वरो मोहयामास माल्यवंतं स्वतेजसा
माल्यवान्समरं त्यक्त्वा पराक्रांतो गिरिं ययौ । चंडिर्भयानकेनाजौ पाशेन हृदये हतः
हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे । कार्त्तिकेयो रणे राहुं शितैर्बाणैः समाहनत्
आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोच ह । आपतंतीं महाशक्तिं ज्वलंतीमिव तेजसा
दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम् । स तां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः
स्वर्भानुः शिरसोनोपि तस्य शक्त्या जघान तम् । वक्षस्यभिहते शक्त्या तद्देहान्निर्गता सरित्
तया संप्लावितः पुत्रो महादेवस्य संयुगे । कथंचित्सा नदी रुद्धा समं पूरो गिरिं ययौ
श्रुत्वार्णवजो ज्वरतः कटककदंबस्य कर्कशं विरुतम् । सुस्वरवचनविदग्धं तमपि च कोकिलापतिं न सस्मार
शरैः किरंतं दहनमसिना बर्बरोऽवधीत् । कूष्मांडो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना
पातालकेतुना हासो मुद्गरेण समाहतः । तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक्
शुंडायां मुष्टिघातेन हतः पातालकेतुना । आयुधैर्जर्जरं चक्रे भृंगीशं रोमकंटकः
भृंगीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ । सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत्
गणं गिलितवान्दैत्यो महाकायो महाननः । हाहाकारो महानासीद्गिलिते केतुना रणे
जृंभस्य निशितैर्बाणैश्छिन्नांगोऽथ विनायकः । शुंडादंडं परशुना तस्य चिच्छेद दंतिनः
जृंभासुरो जघानाथ शक्त्या लंबोदरोदरम् । मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम्
विनायकः प्रहारार्त्तो विललापाकुलो रणे । हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय
गणेशक्रंदितं श्रुत्वा भगवत्या तया तदा । समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा
हेरंबो वध्यते दैत्यैः स्कंदोऽपि विनिपातितः । शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि
सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः । अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत्
वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत् । बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम्
कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ । स्कंधे च किंकिणीजालं चरणे नूपुरं महत्
पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे । कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता
पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका । न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ
पार्वत्या भूषितः सोऽथ निजया घंटमालया । कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे । आगंतव्यमरीन्जित्वा शंभुना सह संगरे
इति श्रुत्वा वचो देव्या हरो वृषमथारुहत् । धृत्वायुधसहस्रं तु निजालंकारभूषितः । रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम्
ईश्वर उवाच- त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा । भामिनी दुरभिप्राया दानवा हि समागताः
तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने । इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम्